रञ्जिता नु विविधास्तरुशैला
नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री
संहृता नु ककुभस्तिमिरेण ॥

अन्वयः AI तिमिरेण विविधाः तरु-शैलाः रञ्जिताः नु? गगनम् नामितम् नु? स्थगितम् नु? धरित्री विषमेषु पूरिता नु? ककुभः संहृताः नु?
English Summary AI By the darkness, were the various trees and mountains painted? Was the sky lowered, or was it covered? Was the earth filled in its hollows? Or were the directions themselves withdrawn?
सारांश AI अंधकार ने मानो वृक्षों-पर्वतों को रंग दिया, आकाश को झुका दिया, पृथ्वी के ऊंच-नीच को भर दिया और दिशाओं को समेट लिया।
घण्टापथव्याख्या (मल्लिनाथः) रञ्जिता इति ॥ तिमिरेणान्धकारेण विविधास्तरवः शैलाश्च रञ्जिताः स्वसावर्ण्यमापादिता नु । अन्यथा कथमेषां नीलाढ्यत्वमिति भावः । तथा गगनं नामितं तु। आभूतलादिति शेषः । "मितां ह्रस्वः' इत्यत्र वाशब्दानुवृत्त्या व्यवस्थितविभाषाश्रयणान्न ह्रस्वः । यद्वा गगनं स्थगितमाच्छादितं नु । उभयत्रापि तमसावृतत्वान्न दृश्यत इति भावः । तथा धरित्री विषमेषु निम्मोन्नतेषु पूरिता समीकृता नु । अन्यथा तद्विवेकः कथं न स्यादिति भावः । ककुभो दिशश्च संहृता नु लुप्ताः किम् ।'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । कथमन्यथा न दृश्यन्त इति भावः । अत्र तिमिरे तरुशैलाद्यनेकविषयरञ्जकत्वादिकमारोप्य संदिग्ध इति संदेहालंकारः । अनेन नुशब्दस्य संभावनाद्योतकत्वमत्रोत्प्रेक्षाप्रकारमित्यलंकारसर्वस्वकारः ॥
पदच्छेदः AI
रञ्जितारञ्जित (√रञ्ज्+क्त, १.३) were painted
नुनु ?
विविधाःविविध (१.३) various
तरुशैलाःतरुशैल (१.३) trees and mountains
नामितंनामित (√नम्+णिच्+क्त, १.१) was lowered
नुनु ?
गगनंगगन (१.१) the sky
स्थगितंस्थगित (√स्थग्+क्त, १.१) was covered
नुनु ?
पूरितापूरित (√पॄ+णिच्+क्त, १.१) was filled
नुनु ?
विषमेषुविषम (७.३) in its hollows
धरित्रीधरित्री (१.१) the earth
संहृतासंहृत (सम्√हृ+क्त, १.३) were withdrawn
नुनु ?
ककुभःककुभ् (१.३) the directions
तिमिरेणतिमिर (३.१) by the darkness
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ञ्जि ता नु वि वि धा स्त रु शै ला
ना मि तं नु नं स्थ गि तं नु
पू रि ता नु वि मे षु रि त्री
सं हृ ता नु कु स्ति मि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.