Loading data... On slow networks this could take a few minutes.
100%

यच्छति प्रतिमुखं दयितायै
वाचमन्तिकगतेऽपि शकुन्तौ ।
नीयते स्म नतिमुज्झितहर्षं
पङ्कजं मुखमिवाम्बुरुहिण्या ॥

अन्वयः AI शकुन्तौ अन्तिक-गते अपि दयितायै प्रतिमुखम् वाचम् यच्छति (सति), अम्बुरुहिण्याः मुखम् इव उज्झित-हर्षम् पङ्कजम् नतिम् नीयते स्म ।
English Summary AI Even as the male bird, having come near, was speaking face-to-face with his beloved, the lotus, like the joy-forsaken face of the lotus-plant, was made to bow down (i.e., it closed).
सारांश AI रात्रि के आने पर कमलिनी ने अपना विकसित मुख बंद कर लिया, मानो प्रिय के समीप होने पर भी उसने शोक में सिर झुका लिया हो।
घण्टापथव्याख्या (मल्लिनाथः) यच्छतीति ॥ शकुन्तौ चक्रवाकपक्षिणि । सामान्यस्य प्राकरणिकविशेषपर्यवसानात् । शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः इत्यमरः (अमरकोशः २.५.३५ ) । अन्तिकगते समीपस्थेऽपि दयितायै चक्रवाक्यै प्रतिमुखमभिमुखं यथा तथा वाचं यच्छति वाचमेव ददाने । न तु संगच्छमाने सतीत्यर्थः । पाघ्राध्मा— (अष्टाध्यायी ७.३.७८ ) इत्यादिना दाणो यच्छादेशः । अम्बुरुहिण्या नलिन्योज्झितहर्षं चक्रवाकदुर्दशादर्शनादिव त्यक्तविकासं पङ्कजं मुखमिव नतिं नम्रत्वं नीयते स्म नीतम् । प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् इति नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि लिटू । प्रायेण दुःखदर्शनात्स्त्रियः खिद्यन्ते । विशेषेण विरहदर्शनादिति भावः । अत्र पङ्कजावनतेश्चक्रवाकविक्रोशानन्तर्यात्तद्धेतुकत्वमुत्प्रेक्ष्यते । तच्च मुखोपमेयमम्बुरुहिण्या कामिनीसाम्यं गमयन्त्या निरुह्यत इत्युपमोत्प्रेक्षयोरङ्गाङ्गिभावेन संकरः । व्यञ्जकाप्रयोगात्प्रतीयमानोत्प्रेक्षा ॥
पदच्छेदः AI
यच्छतियच्छति (√दा कर्तरि लट् (परस्मै.) प्र.पु. एक.) while giving
प्रतिमुखंप्रतिमुखम् face to face
दयितायैदयिता (४.१) to his beloved
वाचम्वाच् (२.१) a reply
अन्तिकगतेऽपिअन्तिकगत (√गम्+क्त, ७.१)अपि even when he has come near
शकुन्तौशकुन्त (७.१) the male bird
नीयतेनीयते (√नी भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) was led
स्मस्म (past tense marker)
नतिम्नति (२.१) to a state of bowing
उज्झितहर्षंउज्झित (√उझ्झ्+क्त)हर्ष (१.१) joy-forsaken
पङ्कजंपङ्कज (१.१) the lotus
मुखमिवमुख (१.१)इव like the face
अम्बुरुहिण्याअम्बुरुहिणी (३.१) by the lotus-plant
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
च्छ ति प्र ति मु खं यि ता यै
वा न्ति ते ऽपि कु न्तौ
नी ते स्म ति मु ज्झि र्षं
ङ्क जं मु मि वा म्बु रु हि ण्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.