असंशयं न्यस्तमुपान्तरक्ततां
यदेव रोद्धुं रमणीभिरञ्जनम् ।
हृतेऽपि तस्मिन्सलिलेन शुक्लतां
निरास रागो नयनेषु न श्रियम् ॥

अन्वयः AI रमणीभिः उपान्त-रक्तताम् रोद्धुम् यत् अञ्जनम् न्यस्तम्, तत् असंशयम् एव। तस्मिन् सलिलेन हृते अपि रागः नयनेषु शुक्लताम् निरास, श्रियम् न (निरास)।
English Summary AI The collyrium was undoubtedly applied by the beautiful women to conceal the natural redness in the corners of their eyes. Even when it was washed away by water, this innate redness removed the whiteness of the sclera, but it did not remove the beauty of their eyes.
सारांश AI आँखों की लालिमा को ढंकने के लिए लगाया गया काजल यद्यपि जल में धुल गया, फिर भी आँखों की स्वाभाविक लालिमा और सुंदरता अक्षुण्ण बनी रही।
घण्टापथव्याख्या (मल्लिनाथः) असंशयमिति॥ स्त्रीणां नेत्रशोभार्थमञ्जनधारणमम्बुविहारोपगमाद्रक्तवर्णत्वं चाक्ष्णां ततः शुक्लत्वतिरोधानं च निश्चितमित्युत्प्रेक्षते । रमणीभिर्यदञ्जनं न्यस्तम्। तदिति शेषः। यत्तदोर्नित्यसंबन्धात्। तदञ्जनमुपान्तयो रक्ततां रोद्धुं प्रतिबद्धमेव न्यस्तम् । न तु शोभार्थमित्यर्थः । अन्यथा रागामिव्यात्या शुक्लत्वतिरोधानं स्यादित्यर्थः । असंशयमित्युत्प्रेक्षाव्यञ्जकम् । संशयस्याप्यभावः । नात्र संशयोऽस्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । कुत एतदिति चेद्यतस्तस्मिन्नञ्जने सलिलेन हृते क्षालिते सत्यपि रागः पूर्वोक्त एवोपान्तरक्तता किंतु प्रतिबन्धाभावादभितो व्याप्त्येत्याशयः। नयनेषु शुक्लतां निरास निरस्तवान्। अस्यतेर्लिट् । श्रियं शोभां तु न निरास । अतः शुक्लत्वविरोधिरागनिरोधार्थमेवेदमञ्जनं स्यात् । नतु शोभार्थम् । तस्यास्तदभावेऽपि सद्भावादित्यर्थः । अञ्जनापगमेऽपि तन्नयनानां राग एवालंकारोऽभूदिति भावः। अत्राञ्जनन्यासमनूद्य तस्य शोभार्थत्वनिषेधेन रागरोधार्थत्वोत्प्रेक्षणमुदितम् । उत्तरार्धे तस्यैव समर्थनात्। एवमुपान्तरक्ततां रोद्धुं यदञ्जनं न्यस्तमित्येकान्वये विध्यनुवादविरोधः स्यात् ॥
पदच्छेदः AI
असंशयम्असंशयम् Without a doubt,
न्यस्तम्न्यस्त (नि√अस्+क्त, १.१) was applied
उपान्तरक्ततांउपान्तरक्तता (२.१) the redness in the corners (of the eyes)
यत्यद् (१.१) which
एवएव indeed
रोद्धुम्रोद्धुम् (√रुध्+तुमुन्) to conceal
रमणीभिःरमणी (३.३) by the beautiful women
अञ्जनम्अञ्जन (१.१) the collyrium
हृतेहृत (√हृ+क्त, ७.१) having been washed away
अपिअपि even when
तस्मिन्तद् (७.१) that (collyrium)
सलिलेनसलिल (३.१) by the water,
शुक्लतांशुक्लता (२.१) the whiteness,
निरासनिरास (निर्√अस् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) removed
रागःराग (१.१) the natural redness (of passion)
नयनेषुनयन (७.३) in the eyes
not
श्रियम्श्री (२.१) the beauty.
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
सं यं न्य स्त मु पा न्त क्त तां
दे रो द्धुं णी भि ञ्ज नम्
हृ ते ऽपि स्मि न्स लि ले शु क्ल तां
नि रा रा गो ने षु श्रि यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.