विधूतकेशाः परिलोलितस्रजः
सुराङ्गनानां प्रविलुप्तचन्दनाः ।
अतिप्रसङ्गाद्विहितागसो मुहुः
प्रकम्पमीयुः सभया इवोर्मयः ॥

अन्वयः AI सुराङ्गनानां विधूतकेशाः परिलोलितस्रजः प्रविलुप्तचन्दनाः (कुर्वन्तः) अतिप्रसङ्गात् मुहुः विहितागसः ऊर्मयः सभयाः इव प्रकम्पम् ईयुः ।
English Summary AI The waves, having shaken the hair, tossed about the garlands, and washed away the sandalwood paste of the celestial women, and thus having repeatedly committed offenses through excessive contact, began to tremble, as if in fear.
सारांश AI बिखरे बालों और टूटी मालाओं वाली स्त्रियों के चन्दन को धोती हुई लहरें, मानो मर्यादा उल्लंघन के अपराध से भयभीत होकर बार-बार कांपने लगीं।
घण्टापथव्याख्या (मल्लिनाथः) विधूतेति ॥ विधूता विक्षिप्ताः केशा यैस्ते परिलोलिता विलोलिताः स्त्रजो यैस्ते प्रविलुप्तचन्दनाःप्रमृष्टाङ्गरागा अतिप्रसङ्गादविच्छेदात्सुराङ्गनानां विहितागसः कृतमण्डनखण्डनरूपापराधा अत एवोर्मयस्तरङ्गाः । सभया इव स्त्रीभ्यो भीता इव मुहुः प्रकम्पमीयुः। स्वाभाविकस्य कम्पस्य भयहेतुकत्वमुत्प्रेक्ष्यते । यद्वा । सुराङ्गनानां विधूतकेशा इत्यादियोजना । सापेक्षत्वेऽपि गमकत्वात्समासः । स्त्रीसंग्रहणसाहसमपराधः । भयं तु राजादिभ्य इति ॥
पदच्छेदः AI
विधूतकेशाःविधूत (वि√धू+क्त)केश (१.३) those who have shaken the hair
परिलोलितस्रजःपरिलोलित (परि√लुल्+क्त)स्रज् (१.३) those who have tossed about the garlands
सुराङ्गनानांसुराङ्गना (६.३) of the celestial women
प्रविलुप्तचन्दनाःप्रविलुप्त (प्र+वि√लुप्+क्त)चन्दन (१.३) those who have washed away the sandalwood paste
अतिप्रसङ्गात्अतिप्रसङ्ग (५.१) from excessive contact
विहितागसःविहित (वि√धा+क्त)आगस् (१.३) having committed an offense
मुहुःमुहुस् again and again
प्रकम्पम्प्रकम्प (२.१) trembling
ईयुःईयुः (√इ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) attained
सभयाःसभय (१.३) fearful
इवइव as if
ऊर्मयःऊर्मि (१.३) the waves
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि धू के शाः रि लो लि स्र जः
सु रा ङ्ग ना नां प्र वि लु प्त न्द नाः
ति प्र ङ्गा द्वि हि ता सो मु हुः
प्र म्प मी युः या वो र्म यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.