उपेयुषीणां बृहतीरधित्यका
मनांसि जह्रुः सुरराजयोषिताम् ।
कपोलकाषैः करिणां मदारुणै-
रुपाहितश्यामरुचश्च चन्दनाः ॥

अन्वयः AI बृहतीः अधित्यकाः उपेयुषीणां सुरराजयोषितां मनांसि जह्रुः । करिणां मदारुणैः कपोलकाषैः उपाहितश्यामरुचः चन्दनाः च (मनांसि जह्रुः) ।
English Summary AI The vast mountain plateaus captivated the minds of the celestial ladies who had arrived there. So too did the sandalwood trees, which had acquired a dark lustre from being rubbed by the temples of elephants, reddened with rut-fluid.
सारांश AI पर्वत की चोटियों पर स्थित चंदन के वे वृक्ष देवांगनाओं के मन को मोहने लगे, जो मदमस्त हाथियों के रगड़ने से उनके गालों के मद की लाली से काले पड़ गए थे।
घण्टापथव्याख्या (मल्लिनाथः) उपेयुषीणामिति ॥मदेनारुणैरव्यक्तरागैः। अव्यक्तरागस्त्वरुणः इत्यमरः (अमरकोशः १.५.१६ ) । करिणां कपोलानां काषैः कपणैरुपाहितश्यामरुचो जनितकृष्णवर्णा इति तद्भूषणालंकारः। चन्दना मलयजाः । गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् इत्यमरः (अमरकोशः २.६.१३२ ) । वृहतीरधिस्यका ऊर्श्वभूमीरुपेयुषीणां सुरराजयोषितां मनांसिजह्रु: । अत्र चतुःश्लोक्या नद्यादीनां विशिष्टानामेवाप्सरोमनोहरणहेतुत्वोक्त्या काव्यंलिङ्गमुन्नेयम् ॥ स्वगोचरेसत्यपि चित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् । नभश्चराणामुपकर्तुमिच्छतां प्रियाणि चक्रुः प्रणयेन योषितः
पदच्छेदः AI
उपेयुषीणांउपेयिवस् (उप√इ+क्वसु, ६.३) of those who had arrived
बृहतीःबृहत् (२.३) the vast
अधित्यकाःअधित्यका (२.३) plateaus
मनांसिमनस् (२.३) the minds
जह्रुःजह्रुः (√हृ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) captivated
सुरराजयोषिताम्सुरराजयोषित् (६.३) of the wives of the king of gods
कपोलकाषैःकपोलकाष (३.३) by the rubbing of the temples
करिणांकरिन् (६.३) of elephants
मदारुणैःमदअरुण (३.३) reddened by rut-fluid
उपाहितश्यामरुचःउपाहित (उप+आ√धा+क्त)श्यामरुच् (१.३) which had acquired a dark lustre
and
चन्दनाःचन्दन (१.३) the sandalwood trees
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पे यु षी णां बृ ती धि त्य का
नां सि ह्रुः सु रा यो षि ताम्
पो का षैः रि णां दा रु णै
रु पा हि श्या रु श्च न्द नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.