सिन्दूरैः कृतरुचयः सहेमकक्ष्याः
स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः ।
सादृश्यं ययुररुणांशुरागभिन्नै-
र्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥

अन्वयः AI सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिः मदम् क्षरन्तः त्रिदशगजाः, अरुणांशुरागभिन्नैः स्फुरितशतह्रदैः वर्षद्भिः पयोदैः सादृश्यम् ययुः ।
English Summary AI The celestial elephants, splendid with vermilion and golden girth-belts, and discharging streams of ichor, resembled raining clouds. These clouds were tinged red by the sun (like vermilion), had flashing lightning (like the golden belts), and their rain resembled the flowing ichor.
सारांश AI सिंदूर से रंजित और स्वर्ण जंजीरों वाले मद बहाते हुए देव-हाथी सूर्य की किरणों से लाल तथा बिजली की चमक वाले वर्षाकालीन बादलों के समान दिखाई दे रहे थे।
घण्टापथव्याख्या (मल्लिनाथः) सिन्दूरैरिति । सिन्दूरैर्नागसंभवाख्यै रागद्रव्यैः। सिन्दूरं नागसंभवम् इत्यमरः (अमरकोशः २.९.१०५ ) । कृतरुचयः । अलंकृता इत्यर्थः। सह हेम्न: कक्ष्याभिर्मध्येभबन्धनैः सहेमकक्ष्या:।तेन सहेति तुल्ययोगे (अष्टाध्यायी २.२.२८ ) इति बहुव्रीहिः। कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने इत्यमरः (अमरकोशः ३.३.१६६ ) । स्रोतोभिः सप्तभिर्मदनाडीभिः । करात्कटाभ्यां मेढ्राच्च नेत्राभ्यां च मदच्युतिः इति पालकाप्ये । करान्नासारन्ध्राभ्यामित्यर्थः । मदं क्षरन्तो वर्षन्तस्त्रिदशगजा अरुणस्यार्कस्यांशूनां रागेणारुण्येन भिन्नैः संसृष्टैर्वर्षद्भिः स्फुरितशतहदैः स्फुरिततडित्कैः पयोदैः सादृश्यं ययुरित्युपमालंकारः ॥ अत्यर्थ दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य । आशानामुपरिचितामिवैकवेणीं रम्योर्मि त्रिदशनदीं ययुर्बलानि
पदच्छेदः AI
सिन्दूरैःसिन्दूर (३.३) with vermilion powder
कृतरुचयःकृतरुच् (१.३) made splendid
सहेमकक्ष्याःहेमकक्ष्या (१.३) with golden girth-belts
स्रोतोभिःस्रोतस् (३.३) with streams
त्रिदशगजाःत्रिदशगज (१.३) the celestial elephants
मदम्मद (२.१) ichor
क्षरन्तःक्षरत् (√क्षर्+शतृ, १.३) discharging
सादृश्यम्सादृश्य (२.१) resemblance
ययुःययुः (√या कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) attained
अरुणांशुरागभिन्नैःअरुणअंशुरागभिन्न (√भिद्+क्त, ३.३) tinged with the color of the sun's rays
वर्षद्भिःवर्षत् (√वृष्+शतृ, ३.३) raining
स्फुरितशतह्रदैःस्फुरित (√स्फुर्+क्त)शतह्रदा (३.३) with flashing lightning
पयोदैःपयोद (३.३) with clouds
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सि न्दू रैः कृ रु यः हे क्ष्याः
स्रो तो भि स्त्रि जा दं क्ष न्तः
सा दृ श्यं यु रु णां शु रा भि न्नै
र्व र्ष द्भिः स्फु रि ह्र दैः यो दैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.