Loading data... On slow networks this could take a few minutes.
100%

आरोढुः समवनतस्य पीतशेषे
साशङ्कं पयसि समीरिते करेण ।
संमार्जन्नरुणमदस्रुती कपोलौ
सस्यन्दे मद इव शीकरः करेणोः ॥

अन्वयः AI आरोढुः समवनतस्य सतः करेण पीत-शेषे पयसि स-आशङ्कम् समीरिते सति, अरुण-मद-स्रुती कपोलौ संमार्जन् करेणोः शीकरः मदः इव सस्यन्दे ।
English Summary AI When the male elephant, bent down for its rider, hesitantly sprinkled the remaining water from its trunk onto its mate, the spray, wiping the two reddish streams of rut-fluid on her cheeks, trickled down as if it were his own rut-fluid offered to her.
सारांश AI झुककर पानी पीती हथिनी की सूँड से उड़ी जल की बूंदें उसके कपोलों को धो रही थीं, जो ऐसा लगा मानो उसका नया मद बह रहा हो।
घण्टापथव्याख्या (मल्लिनाथः) आरोढुरिति ॥ समवनतस्य जलपानार्थमानतपूर्वकायस्य करेणोर्गजस्य । करेणुरिभ्यां स्त्री नेभे इत्यमरः (अमरकोशः ३.३.५९ ) । करेण पीतस्य शेषे पयस्यारोढुर्हस्तिपकात्साशङ्कं सभयं समीरिते। क्षिप्ते सतीत्यर्थः ।शीकरोऽम्बुकणः। अरुणे मदस्त्रुती मदधारे ययोस्तौ कपोलौ संमार्जन्प्रमृजन । मृजेरजादौ संक्रमे विभाषावृद्धिर्वक्तव्या इति वृद्धिः । मद् इव सस्यन्दे सुस्राव । मदसंपृक्तस्य मदसादृश्यान्मदोपमा ।
पदच्छेदः AI
आरोढुःआरोढृ (६.१) of the rider
समवनतस्यसमवनत (सम्+अव√नम्+क्त, ६.१) of him who was bent down
पीतशेषेपीत (√पा+क्त)शेष (७.१) in the remaining water after drinking
साशङ्कंसाशङ्कम् hesitantly
पयसिपयस् (७.१) in the water
समीरितेसमीरित (सम्√ईर्+क्त, ७.१) when sprinkled
करेणकर (३.१) by the trunk
संमार्जन्संमार्जत् (सम्√मृज्+शतृ, १.१) wiping
अरुणमदस्रुतीअरुणमदस्रुति (२.२) the two streams of reddish rut-fluid
कपोलौकपोल (२.२) the two cheeks
सस्यन्देसस्यन्दे (√स्यन्द् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) flowed
मदमद (१.१) rut-fluid
इवइव like
शीकरःशीकर (१.१) the spray of water
करेणोःकरेणु (६.१) of the female elephant
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
रो ढुः स्य पी शे षे
सा ङ्कं सि मी रि ते रे
सं मा र्ज न्न रु स्रु ती पो लौ
स्य न्दे शी रः रे णोः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.