Loading data... On slow networks this could take a few minutes.
100%

आयस्तः सुरसरिदोघरुद्धवर्त्मा
सम्प्राप्तुं वनगजदानगन्धि रोधः ।
मूर्धानं निहितशिताङ्कुशं विधुन्व-
न्यन्तारं न विगणयांचकार नागः ॥

अन्वयः AI सुर-सरित्-ओघ-रुद्ध-वर्त्मा आयस्तः नागः वन-गज-दान-गन्धि रोधः सम्प्राप्तुम्, निहित-शित-अङ्कुशम् मूर्धानम् विधुन्वन्, यन्तारम् न विगणयांचकार ।
English Summary AI Fatigued and with its path blocked by the river's current, an elephant, eager to reach the bank fragrant with the rut of wild elephants, shook its head despite the sharp goad placed upon it and paid no heed to its driver.
सारांश AI जंगली हाथियों की मद-गंध से उत्तेजित हाथी ने महावत के अंकुश की परवाह न करते हुए अपना सिर झटक दिया और नदी पार करने को व्याकुल हो उठा।
घण्टापथव्याख्या (मल्लिनाथः) आयस्त इति ॥ वनगजदानस्य गन्धोऽस्यास्तीति तथोक्तं रोधः । परकूलमित्यर्थः । संप्राप्तुं गन्तुमायस्त उत्सुकः । प्रयत्नं कुर्वाण इत्यर्थः । यसु प्रयत्ने इति धातोः कर्तरि क्तः। किंतु सुरसरिदोधेन गङ्गाप्रवाहेण रुद्धं वर्त्म यस्य सः । नागो गजो निहितो दत्तः शितस्तीक्ष्णोऽङ्कुशो यस्मिन् । अङ्कुशोऽस्त्री सृणिः स्त्रियाम् इत्यमरः (अमरकोशः २.८.४१ ) । तं मूर्धानं विधुन्वन् । रोषादिति भावः । यन्तारं न विगणयांचकार न विगणयामास ॥ आरोढु: समवनतस्य पीतशेष साशङ्कं पयसि समीरिते करेण । संमार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरःकरेणोः
पदच्छेदः AI
आयस्तःआयस्त (आ√यस्+क्त, १.१) fatigued
सुरसरित्सुरसरित् undefined
ओघओघ undefined
रुद्धरुद्ध (√रुध्+क्त) undefined
वर्त्मावर्त्मन् (१.१) whose path was blocked by the river's current
सम्प्राप्तुंसम्प्राप्तुम् (सम्+प्र√आप्+तुमुन्) to reach
वनगजदानगन्धिवनगजदानगन्धिन् (२.१) fragrant with the rut of wild elephants
रोधःरोधस् (२.१) the bank
मूर्धानंमूर्धन् (२.१) head
निहितनिहित (नि√धा+क्त) undefined
शितशित (√शो+क्त) undefined
अङ्कुशंअङ्कुश (२.१) on which a sharp goad was placed
विधुन्वन्विधुन्वत् (वि√धू+शतृ, १.१) shaking
यन्तारंयन्तृ (२.१) the driver
not
विगणयांचकारविगणयांचकार (वि√गण् +णिच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) did not heed
नागःनाग (१.१) the elephant
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्तः सु रि दो रु द्ध र्त्मा
म्प्रा प्तुं दा न्धि रो धः
मू र्धा नं नि हि शि ता ङ्कु शं वि धु न्व
न्य न्ता रं वि यां का ना गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.