सामोदाः कुसुमतरुश्रियो विविक्ताः
सम्पत्तिः किसलयशालिनीलतानाम् ।
साफल्यं ययुरमराङ्गनोपभुक्ताः
सा लक्ष्मीरुपकुरुते यया परेषाम् ॥

अन्वयः AI अमर-अङ्गना-उपभुक्ताः स-आमोदाः कुसुम-तरु-श्रियः, विविक्ताः किसलय-शालिनी-लतानाम् सम्पत्तिः च साफल्यम् ययुः । सा लक्ष्मीः एव लक्ष्मीः यया परेषाम् उपकुरुते ।
English Summary AI The fragrant splendors of the flowering trees and the charming wealth of the sprouting creepers, being enjoyed by the celestial women, attained fulfillment. True wealth is that which benefits others.
सारांश AI वृक्षों और लताओं का वैभव तब सफल हुआ जब देवस्त्रियों ने उनका उपभोग किया, क्योंकि वही संपत्ति सार्थक है जो दूसरों के कल्याण में प्रयुक्त हो।
घण्टापथव्याख्या (मल्लिनाथः) सामोदा इति ॥ सामोदाः ससौरभाः कुसुमप्रधानास्तरवः । शाकपार्थिवादिषु द्रष्टव्यः। तेषां श्रियः समृद्धयो विविक्ता विजनप्रदेशाः। विविक्तविजनच्छन्ननिःशलाकास्तथा रहः इत्यमरः (अमरकोशः २.८.२२ ) । किसलयशालिनीलतानां नवपल्लवयुतवल्लीनां संपत्तिरेता अमराङ्गनोपभुक्ताः सत्यः साफल्यं ययुः। तथाहि । यया लक्ष्म्या करणेन परेषामुपकुरुते। लक्ष्मीवानिति शेषः । सा लक्ष्मीर्नान्येति भावः। परेपामित्यत्र अनुकरोति भगवतो नारायणस्य इत्यादिवत्क्रियायोगे हि संबन्धसामान्ये षष्ठी ॥ क्लान्तोऽपित्रिदशवधूजनः पुरस्ताल्लीनाहिश्वसितविलोलपल्लवानाम्। सेव्यानां हतविनयैरिवावृतानां संपर्कं परिहरति स्म चन्दनानाम्
पदच्छेदः AI
सामोदाःआमोद (१.३) fragrant
कुसुमतरुश्रियोकुसुमतरुश्री (१.३) the splendors of the flowering trees
विविक्ताःविविक्त (√विच्+क्त, १.३) charming
सम्पत्तिःसम्पत्ति (सम्√पद्+क्तिन्, १.१) the wealth
किसलयशालिनीलतानाम्किसलयशालिन्लता (६.३) of the creepers endowed with sprouts
साफल्यंसाफल्य (२.१) fulfillment
ययुःययुः (√या कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) they attained
अमराङ्गनोपभुक्ताःअमरअङ्गनाउपभुक्त (उप√भुज्+क्त, १.३) enjoyed by the celestial women
सातद् (१.१) that
लक्ष्मीःलक्ष्मी (१.१) wealth
उपकुरुतेउपकुरुते (उप√कृ कर्तरि लट् (आत्मने.) प्र.पु. एक.) benefits
ययायद् (३.१) by which
परेषाम्पर (६.३) of others
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सा मो दाः कु सु रु श्रि यो वि वि क्ताः
म्प त्तिः कि शा लि नी ता नाम्
सा ल्यं यु रा ङ्ग नो भु क्ताः
सा क्ष्मी रु कु रु ते या रे षाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.