भूभर्तुः समधिकमादधे तदोर्व्याः
श्रीमत्तां हरिसखवाहिनीनिवेशः ।
संसक्तौ किमसुलभं महोदयाना-
मुच्छ्रायं नयति यदृच्छयापि योगः ॥

अन्वयः AI तदा हरि-सख-वाहिनी-निवेशः उर्व्याः श्रीमत्तां भू-भर्तुः समधिकम् आदधे । महा-उदयानाम् संसक्तौ किम् असुलभम्? यदृच्छया अपि योगः उच्छ्रायम् नयति ।
English Summary AI The encampment of Shiva's army added to the splendor of the earth, making it even greater than that of the Himalaya mountain. What is unattainable for the greatly prosperous when they associate? Even a chance union leads them to greater eminence.
सारांश AI इंद्र की सेना के पड़ाव ने पृथ्वी की शोभा बढ़ा दी; श्रेष्ठ विभूतियों का परस्पर मिलन सहज ही महान उन्नति और उत्कर्ष को जन्म देता है।
घण्टापथव्याख्या (मल्लिनाथः) भूभर्तुरिति ॥ तदा हरिसखवाहिनीनिवेशो गन्धर्वसेनाशिबिरम् । निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः' इति शाश्वतः । भूभर्तुः पर्वतस्योर्व्या: समधिकं पूर्वस्माद भ्यधिकं यथा तथा श्रीमत्ताम् । श्रियमित्यर्थः । आदधे जनयामास। तथाहि। महोदयानां महात्मनां संसक्तौ सम्यक्संबन्धे । 'संभक्तौ' इति पाठे तु सम्यक्सेवायाम् । किमसुलभम् । न किंचिद्दुर्लभमित्यर्थः । यतः । यदृच्छया दैवाद्योगोऽप्युच्छ्रायमुत्कर्षं नयति । अत्र प्रकृतयदृच्छया योगस्योत्कर्षाभिधानादप्रकृतसक्तियोगस्योत्कर्षांधायकत्वे कैमुतिकन्यायेनार्थापत्तिरिति प्राकरणिकादप्राकरणिकरूपार्थापत्तिरलंकारः । तदुक्तम्'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यथा पतेत् । कैमुत्येन यतः सा स्यादर्थापत्तिरलंक्रिया ॥' इति ॥ सामोदाःकुसुमतरुश्रियोविविक्ताःसंपत्तिःकिसलयशालिनीलतानां साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषाम्
पदच्छेदः AI
भूभर्तुःभूभर्तृ (६.१) of the mountain (Himalaya)
समधिकम्समधिकम् even more
आदधेआदधे (आ√धा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) added
तदातदा then
उर्व्याःउर्वी (६.१) of the earth
श्रीमत्तांश्रीमत्ता (२.१) splendor
हरिसखवाहिनीनिवेशःहरिसखवाहिनीनिवेश (१.१) the encampment of the army of Shiva
संसक्तौसंसक्त (√सञ्ज्+क्त, ७.१) in association
किम्किम् what
असुभम्असुभ (१.१) is unattainable
महोदयानाम्महत्उदय (६.३) for the greatly prosperous
उच्छ्रायंउच्छ्राय (उद्√श्रि+घञ्, २.१) to eminence
नयतिनयति (√नी कर्तरि लट् (परस्मै.) प्र.पु. एक.) leads
यदृच्छयायदृच्छा (३.१) by chance
अपिअपि even
योगःयोग (१.१) association
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
भू र्तुः धि मा धे दो र्व्याः
श्री त्तां रि वा हि नी नि वे शः
सं क्तौ कि सु भं हो या ना
मु च्छ्रा यं ति दृ च्छ या पि यो गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.