नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं
पर्यस्यन्नवसलिलारुणं वहन्ती ।
आतेने वनगहनानि वाहिनी सा
घर्मान्तक्षुभितजलेव जह्नुकन्या ॥

अन्वयः AI पथिषु नीरन्ध्रम्, रथाङ्ग-नुन्नम्, नव-सलिल-अरुणम् रजः पर्यस्यन्, तत् वहन्ती सा वाहिनी, घर्म-अन्त-क्षुभित-जल जह्नु-कन्या इव, वन-गहनानि आतेने ।
English Summary AI That army, carrying and scattering the dense dust raised by the chariot wheels on the paths—dust that was reddish like the first muddy waters of the monsoon—filled the forest depths, resembling the river Ganga with its waters agitated at the end of the hot season.
सारांश AI रथों के पहियों से उड़ती धूल को समेटकर सघन वनों की ओर बढ़ती वह सेना ग्रीष्म ऋतु के मटमैले जल वाली गंगा के समान प्रतीत हुई।
घण्टापथव्याख्या (मल्लिनाथः) नीरन्ध्रमिति ॥ नीरन्ध्रं सान्द्रं पथिषु रथाङ्गैश्चक्रैर्नुन्नं प्रेरितम् । नुत्तनुन्नास्तनिष्टयूतविद्धक्षिप्तेरिताः समाः इत्यमरः (अमरकोशः ३.१.८६ ) । पर्यस्यत्प्रसर्पन्नवसलिलमिवारुणं रजो वहन्ती सा वाहिनी सेना । धर्मान्ते प्रावृषि क्षुभितजला । कलुषोदकेत्यर्थः । जह्नुकन्या गङ्गेव । वनानि फलकुसुमप्रधानानि, गहनानि जीर्णारण्यानि च । तानि वनगहनान्यातेने व्यानशे। अत्र समासगतवाक्यगतोपमयोः सजातीययोरङ्गाङ्गिभावेन संकरः ॥ संभोगक्षमगहनामथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम्
पदच्छेदः AI
नीरन्ध्रम्नीरन्ध्रम् densely
पथिषुपथिन् (७.३) on the paths
रजःरजस् (२.१) dust
रथाङ्गनुन्नंरथाङ्गनुन्न (√नुद्+क्त, २.१) raised by the chariot wheels
पर्यस्यन्पर्यस्यत् (परि√अस्+शतृ, २.१) scattering
नवसलिलारुणंनवसलिलअरुण (२.१) red like the first flood waters
वहन्तीवहन्ती (√वह्+शतृ+ङीप्, १.१) carrying
आतेनेआतेने (आ√तन् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) filled
वनगहनानिवनगहन (२.३) the forest depths
वाहिनीवाहिनी (१.१) the army
सातद् (१.१) that
घर्मान्तक्षुभितजलेवघर्मअन्तक्षुभित (√क्षुभ्+क्त)जलइव like... with waters agitated at the end of summer
जह्नुकन्याजह्नुकन्या (१.१) Jahnu's daughter (the Ganga)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
नी न्ध्रं थि षु जो था ङ्ग नु न्नं
र्य स्य न्न लि ला रु णं न्ती
ते ने ना नि वा हि नी सा
र्मा न्त क्षु भि ले ह्नु न्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.