सेतुत्वं दधति पयोमुचां विताने
संरम्भादभिपततो रथाञ्जवेन ।
आनिन्युर्नियमितरश्मिभुग्नघोणाः
कृच्छ्रेण क्षितिमवनामितस्तुरङ्गाः ॥

अन्वयः AI पयोमुचां विताने सेतुत्वं दधति (सति), संरम्भात् जवेन अभिपततः रथान्, नियमितरश्मिभुग्नघोणाः अवनामितः तुरङ्गाः कृच्छ्रेण क्षितिम् आनिन्युः ।
English Summary AI While the expanse of clouds acted as a bridge, the horses, with their heads bent down and nostrils flared from the tightly pulled reins, with great difficulty brought the chariots—which were impetuously rushing downwards with speed—to the earth.
सारांश AI बादलों के समूह पर पुल की भाँति दौड़ते हुए रथों के घोड़ों की लगाम खींचकर उन्हें बड़ी कठिनाई से नीचे झुकाया गया, जिससे उनकी नासिकाएँ मुड़ गईं।
घण्टापथव्याख्या (मल्लिनाथः) सेतुत्वमिति ॥ पयोमुचां विताने सेतुत्वं दधति सति संरम्भादोटापाज्जवेनाभिपततः। मेघवृन्दमधरीकृत्य धावत इत्यर्थः । तथाभूतान् रथान्नियमितैराकृष्टै रश्मिभिः प्रग्रहैर्भुग्ना आकुंञ्चिता घोणाः प्रोथा येषां तैः । कुञ्चितं नतम् । आविद्धं कुटिलं भुग्नं वेल्लितं वक्रम् इत्यमरः (अमरकोशः ३.१.७० ) किरणप्रग्रहौ रश्मी इत्यमरः (अमरकोशः ३.३.१४६ ) घोणा तु प्रोथमस्त्रियाम् इत्यमरः (अमरकोशः २.८.४९ ) । अवनमन्तीत्यवनामिनोऽवनतपूर्वकायास्तुरङ्गाः कृच्छ्रेण महता प्रयत्नेन क्षितिमानिन्युरिति स्वभावोक्तिः ॥
पदच्छेदः AI
सेतुत्वम्सेतुत्व (२.१) the state of being a bridge
दधतिदधत् (√धा+शतृ, ७.१) holding
पयोमुचाम्पयोमुच् (६.३) of the clouds
वितानेवितान (७.१) in the expanse
संरम्भात्संरम्भ (५.१) due to impetuosity
अभिपततःअभिपतत् (अभि√पत्+शतृ, २.३) falling towards
रथान्रथ (२.३) the chariots
जवेनजव (३.१) with speed
आनिन्युःआनिन्युः (आ√नी कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) brought
नियमितरश्मिभुग्नघोणाःनियमितरश्मिभुग्नघोणा (१.३) whose nostrils were bent due to the pulled reins
कृच्छ्रेणकृच्छ्र (३.१) with difficulty
क्षितिम्क्षिति (२.१) to the earth
अवनामितःअवनामित (अव√नम्+णिच्+क्त, १.३) bent downwards
तुरङ्गाःतुरङ्ग (१.३) the horses
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
से तु त्वं ति यो मु चां वि ता ने
सं म्भा भि तो था ञ्ज वे
नि न्यु र्नि मि श्मि भु ग्न घो णाः
कृ च्छ्रे क्षि ति ना मि स्तु ङ्गाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.