Loading data... On slow networks this could take a few minutes.
100%

तप्तानामुपदधिरे विषाणभिन्नाः
प्रह्लादं सुरकरिणां घनाः क्षरन्तः ।
युक्तानां खलु महतां परोपकारे
कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥

अन्वयः AI विषाणभिन्नाः क्षरन्तः घनाः तप्तानाम् सुरकरिणाम् प्रह्लादम् उपदधिरे । खलु महताम् परोपकारे युक्तानाम् प्रवृत्तिः रुजत्सु अपि कल्याणी भवति ।
English Summary AI The showering clouds, though pierced by the tusks of the celestial elephants, provided them with coolness from the heat. Indeed, the actions of the great, engaged in helping others, are beneficial even when they themselves are being hurt.
सारांश AI हाथियों के दांतों से बिंधे हुए मेघ जल बरसाकर उन्हीं को शीतलता प्रदान करने लगे; सज्जनों की प्रवृत्ति पीड़ा सहकर भी परोपकार करने की ही होती है।
घण्टापथव्याख्या (मल्लिनाथः) तप्तानामिति ॥ विषाणभिन्ना गजदन्तक्षताः। विषाणं दन्तशृङ्गयोः इति हलायुधः। अत एव क्षरन्तः स्त्रवन्तो घनास्तप्तानां सुरकरिणां प्रह्लादमुपदधिरे चक्रिरे । तथाहि । परोपकारे युक्तानामासक्तानां महतां सतां रुजत्स्वपि पीडयत्स्वपि विषये कल्याणी हितकारिणी खलु प्रवृत्तिर्व्यापारो भवतीत्यर्थान्तरन्यासोऽलंकारः। ततो युक्तं मेघानां गजदन्तक्षतानामपि तदाह्लादत्कवमिति भावः ॥
पदच्छेदः AI
तप्तानाम्तप्त (√तप्+क्त, ६.३) of the heated
उपदधिरेउपदधिरे (उप√धा कर्तरि लिट् (आत्मने.) प्र.पु. बहु.) provided
विषाणभिन्नाःविषाणभिन्न (√भिद्+क्त, १.३) pierced by the tusks
प्रह्लादम्प्रह्लाद (२.१) delight/coolness
सुरकरिणाम्सुरकरिन् (६.३) for the celestial elephants
घनाःघन (१.३) the clouds
क्षरन्तःक्षरत् (√क्षर्+शतृ, १.३) showering
युक्तानाम्युक्त (√युज्+क्त, ६.३) of those who are engaged
खलुखलु indeed
महताम्महत् (६.३) of the great
परोपकारेपरउपकार (७.१) in helping others
कल्याणीकल्याणी (१.१) beneficial
भवतिभवति (√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
रुजत्सुरुजत् (√रुज्+शतृ, ७.३) even while being hurt
अपिअपि even
प्रवृत्तिःप्रवृत्ति (१.१) action
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
प्ता ना मु धि रे वि षा भि न्नाः
प्र ह्ला दं सु रि णां नाः क्ष न्तः
यु क्ता नां लु तां रो का रे
ल्या णी ति रु त्स्व पि प्र वृ त्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.