Loading data... On slow networks this could take a few minutes.
100%

क्रान्तानां ग्रहचरितात्पथो रथाना-
मक्षाग्रक्षतसुरवेश्मवेदिकानाम् ।
निःसङ्गं प्रधिभिरुपाददे विवृत्तिः
सम्पीडक्षुभितजलेषु तोयदेषु ॥

अन्वयः AI ग्रहचरितात् पथः क्रान्तानाम् अक्षाग्रक्षतसुरवेश्मवेदिकानाम् रथानाम् प्रधिभिः सम्पीडक्षुभितजलेषु तोयदेषु निःसङ्गम् विवृत्तिः उपाददे ।
English Summary AI The wheels of the chariots, which had traversed the path of the planets and whose axle-tips had scraped the platforms of celestial mansions, turned without obstruction in the clouds, whose water was agitated by the compression.
सारांश AI ग्रहों के मार्ग से विचलित होकर देव-भवानों की वेदियों को रगड़ते हुए रथों के पहिए उन मेघों के बीच बिना किसी बाधा के घूमने लगे जिनका जल दबाव से क्षुब्ध हो गया था।
घण्टापथव्याख्या (मल्लिनाथः) क्रान्तानामिति ॥ ग्रहै:। सूर्यादिभिश्चरितादाश्रितात् । कर्मणि क्तः। पथो मार्गात्क्रान्तानां निष्क्रान्तानामक्षाश्चक्राधारा दारुविशेषास्तेषामग्रै: क्षता दारिताः सुरवेश्मवेदिका यैस्तेषां रथानां प्रधिभिर्नेमिभिश्चक्रान्तै: । चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् इत्यमरः (अमरकोशः २.८.५६ ) । संपीडेन नोदनेन क्षुभितानि जलानि येषां तेषु तोयदेषु निःसङ्गमप्रतिघातं यथा तथा विवृत्तिः परिभ्रमणमुपाददे स्वीकृतेत्यतिशयोक्तिः स्वभावोत्या संसृज्यते ॥
पदच्छेदः AI
क्रान्तानाम्क्रान्त (√क्रम्+क्त, ६.३) of those that had traversed
ग्रहचरितात्ग्रहचरित (५.१) trodden by the planets
पथःपथिन् (५.१) from the path
रथानाम्रथ (६.३) of the chariots
अक्षाग्रक्षतसुरवेश्मवेदिकानाम्अक्षअग्रक्षतसुरवेश्मन्वेदिका (६.३) whose axle-tips had scraped the platforms of celestial mansions
निःसङ्गम्निःसङ्गम् without obstruction
प्रधिभिःप्रधि (३.३) by the fellies (outer rims of wheels)
उपाददेउपाददे (उप+आ√दा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) took
विवृत्तिःविवृत्ति (१.१) a turn
सम्पीडक्षुभितजलेषुसम्पीडक्षुभितजल (७.३) in which the water was agitated by compression
तोयदेषुतोयद (७.३) in the clouds
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
क्रा न्ता नां ग्र रि ता त्प थो था ना
क्षा ग्र क्ष सु वे श्म वे दि का नाम्
निः ङ्गं प्र धि भि रु पा दे वि वृ त्तिः
म्पी क्षु भि ले षु तो दे षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.