श्रीमद्भिः सरथगजैः सुराङ्गनानां
गुप्तानामथ सचिवैस्त्रिलोकभर्तुः ।
संमूर्छन्नलघुविमानरन्ध्रभिन्नः
प्रस्थानं समभिदधे मृदङ्गनादः ॥

अन्वयः AI अथ त्रिलोकभर्तुः सचिवैः श्रीमद्भिः सरथगजैः गुप्तानाम् सुराङ्गनानाम् प्रस्थानम्, अलघुविमानरन्ध्रभिन्नः संमूर्छन् मृदङ्गनादः समभिदधे ।
English Summary AI Then, the departure of the celestial women, protected by Indra's glorious attendants with their chariots and elephants, was announced by the swelling sound of mridanga drums emerging from the large openings of the celestial cars.
सारांश AI रथों और हाथियों से युक्त, देवस्त्रियों और इंद्र के मंत्रियों द्वारा रक्षित सेना के प्रस्थान के समय मृदंगों का गंभीर नाद विमानों के छिद्रों से टकराता हुआ गूँज उठा।
घण्टापथव्याख्या (मल्लिनाथः) श्रीमद्भिरिति ॥ अथ प्रस्थानानन्तरं श्रीमद्भिः शोभावद्भिः। सह रथगजेन सरथगजास्तैः । तेन सहेति तुल्ययोगे (अष्टाध्यायी २.२.२८ ) इति बहुव्रीहिः । त्रयाणां लोकानां भर्तुस्त्रिलोकभर्तुरिन्द्रस्य । तद्धितार्थ- (अष्टाध्यायी २.१.५१ ) इत्यादिनोत्तरपदसमासः । सचिवैर्गन्धर्वैर्गुप्तानां सुराङ्गनानां प्रस्थानं गमनमलघुषु महत्सु विमानरन्ध्रेषु विमानानां कुक्षिकुहरेषु भिन्नः प्रतिध्वानैरनेकीभूतोऽतएव संमूर्च्छन्व्याप्नुवन्मृदङ्गनादः समभिदध आचख्यौ। पौरेभ्य इति शेषः । अस्सिन्सर्गे प्रहर्षिणीवृत्तम्-म्नौज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम् इतिलक्षणात्॥
पदच्छेदः AI
श्रीमद्भिःश्रीमत् (३.३) by the glorious
सरथगजैःरथगज (३.३) with chariots and elephants
सुराङ्गनानाम्सुरअङ्गना (६.३) of the celestial women
गुप्तानाम्गुप्त (√गुप्+क्त, ६.३) of the protected ones
अथअथ then
सचिवैःसचिव (३.३) by the ministers
त्रिलोकभर्तुःत्रिलोकभर्तृ (६.१) of the master of the three worlds
संमूर्छन्संमूर्छत् (सम्√मूर्छ्+शतृ, १.१) swelling
अलघुविमानरन्ध्रभिन्नःअलघुविमानरन्ध्रभिन्न (√भिद्+क्त, १.१) emerged from the large openings of the celestial cars
प्रस्थानम्प्रस्थान (२.१) the departure
समभिदधेसमभिदधे (सम्+अभि√धा भावकर्मणोः लिट् (आत्मने.) प्र.पु. एक.) was announced
मृदङ्गनादःमृदङ्गनाद (१.१) the sound of the mridanga drums
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
श्री द्भिः जैः सु रा ङ्ग ना नां
गु प्ता ना चि वै स्त्रि लो र्तुः
सं मू र्छ न्न घु वि मा न्ध्र भि न्नः
प्र स्था नं भि धे मृ ङ्ग ना दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.