प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः
स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः ।
अचलनलिनलक्ष्मीहारि नालं बभूव
स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां सहस्रम् ॥

अन्वयः AI अथ प्रणतिम् विधाय सद्मनः प्रस्थिताः प्रीतिभाजः स्तनभरनमिताङ्गीः ताः अङ्गनाः द्रष्टुम् अमरभर्तुः स्तिमितम् अचलनलिनलक्ष्मीहारि अक्ष्णाम् सहस्रम् अलम् न बभूव ।
English Summary AI Then, after making their obeisance, those joyful women, whose bodies were bent by the weight of their breasts, set out from the palace. To see them, the thousand steady eyes of Indra, which rivaled the beauty of unmoving lotuses, were not enough.
सारांश AI प्रणाम करके वहां से प्रस्थान करती हुई उन सुंदरियों की शोभा, जो अपने शारीरिक भार से झुकी हुई थीं, इंद्र की एक हजार स्थिर आंखें भी पूरी तरह देखने में समर्थ नहीं हो पा रही थीं।
घण्टापथव्याख्या (मल्लिनाथः) प्रणतिमिति ॥ अथ प्रणतिं विधाय सद्मन इन्द्रभवनात्प्रस्थिताः प्रचलिताः स्तनभरैर्नमितान्यङ्गानि यासां ताः । अङ्गगात्रकण्ठेभ्यो वक्तव्यम् इति ङीप् । प्रीतिभाजः स्वामिसंभावनया संतुष्टास्ता अङ्गना अचलनलिनानां स्थिरकमलानां लक्ष्मीर्हरतीति तत्तथोक्तम् । तद्वन्मनोहरमित्यर्थः । कुतः स्तिमितं विस्मयंनिश्चलममरभर्तुरक्ष्णां सहस्त्रं कर्तृ द्रष्टुमलं समर्थं न बभूव । तासां सौन्दर्यसागरस्योद्वेलत्वादिति भावः । अत्रोपमालंकारः
पदच्छेदः AI
प्रणतिम्प्रणति (२.१) obeisance
अथअथ then
विधायविधाय (वि√धा+ल्यप्) having performed
प्रस्थिताःप्रस्थित (प्र√स्था+क्त, १.३) set out
सद्मनःसद्मन् (५.१) from the palace
ताःतद् (२.३) those
स्तनभरनमिताङ्गीःस्तनभरनमित (√नम्+क्त)अङ्गी (२.३) whose bodies were bent by the weight of their breasts
अङ्गनाःअङ्गना (२.३) women
प्रीतिभाजःप्रीतिभाज् (२.३) possessing joy
अचलनलिनलक्ष्मीहारिअचलनलिनलक्ष्मीहारिन् (१.१) captivating the beauty of unmoving lotuses
not
अलम्अलम् sufficient
बभूवबभूव (√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) became
स्तिमितम्स्तिमित (√स्तिम्+क्त, १.१) steady
अमरभर्तुःअमरभर्तृ (६.१) of the master of the gods
द्रष्टुम्द्रष्टुम् (√दृश्+तुमुन्) to see
अक्ष्णाम्अक्षि (६.३) of the eyes
सहस्रम्सहस्र (१.१) a thousand
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
प्र ति वि धा प्र स्थि ताः द्म स्ताः
स्त मि ता ङ्गी ङ्ग नाः प्री ति भा जः
लि क्ष्मी हा रि ना लं भू
स्ति मि र्तु र्द्र ष्टु क्ष्णां स्रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.