अनुहेमवप्रमरुणैः समतां
गतमूर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणै-
रनुबध्नतीमभिननन्द रुतैः ॥

अन्वयः AI सः अनुहेमवप्रं पृथुभिः ऊर्मिभिः अवनीतां सहचरं करुणैः रुतैः अनुबध्नतीं अरुणैः समतां गतां रथाङ्गनाम् अभिननन्द ।
English Summary AI He delighted in watching the female Chakravaka bird. Her mate, resembling the ruddy hue of the water, was carried away by large waves along the golden banks, and she followed him with piteous cries.
सारांश AI पर्वत की सुवर्णमयी ढलानों पर बड़ी लहरों के साथ बहती हुई अपनी सहचरी के वियोग में करुण क्रंदन करती हुई चक्रवाक पक्षी की पुकार को अर्जुन ने सहानुभूति पूर्वक सुना।
घण्टापथव्याख्या (मल्लिनाथः) अन्विति ॥ सोऽर्जुनोऽनुहेमवप्रं कनकसानुसमीपे । समीपार्थेऽव्ययीभावः । अरुणैः। कनककान्त्युपरञ्जनादिति भावः । पृथुभिरूर्मिभिः समतां तुल्यरूपतां गतम् । सादृश्याद्दुर्विवेच्यमित्यर्थः । सह भूतं सहचरं प्रियम् । सहशब्दस्य पचाद्यजन्तेन चरशब्देन समासः । करुणैर्दीनै रुतैः कूजितैरनुवघ्नतीमन्विष्यन्तीं रथाङ्गनामवनितां चक्रवाकीमभिननन्द । प्रकृष्टप्रेमदर्शनात्कस्य नानन्द इति भावः । अत्र तावदूर्मीणां स्वधावल्यत्यागेनारुण्यस्वीकारात्तद्गुणालंकार:तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाश्रयात् इति लक्षणात् । तन्मूला चेयं चक्रवाक्याः स्वकान्ते तरङ्गभ्रान्तिरिति तद्गुणम्रान्तिमतोरङ्गाङ्गिभावेन संकरः ॥
पदच्छेदः AI
अनुहेमवप्रम्हेमवप्रम् अनु along the golden banks
अरुणैःअरुण (३.३) with the ruddy (waters)
समतांसमता (२.१) resemblance
गतम्गत (√गम्+क्त, २.१) who had attained
ऊर्मिभिःऊर्मि (३.३) by the waves
सहचरंसहसहचर (√चर्+अच्, २.१) her mate
पृथुभिःपृथु (३.३) large
तद् (१.१) he
रथाङ्गनाम्रथाङ्गनामन् (२.१) the female Chakravaka bird
अवनीताम्अवनीत (अव√नी+क्त, २.१) carried away
करुणैःकरुण (३.३) with piteous
अनुबध्नतीम्अनुबध्नन्ती (अनु√बन्ध्+शतृ+ङीप्, २.१) following
अभिननन्दअभिननन्द (अभि√नन्द् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) delighted in
रुतैःरुत (३.३) cries
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नु हे प्र रु णैः तां
मू र्मि भिः रं पृ थु भिः
था ङ्ग ना नि तां रु णै
नु ध्न ती भि न्द रु तैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.