पृथुदाम्नि तत्र परिबोधि च मा
भवतीभिरन्यमुनिवद्विकृतिः ।
स्वयशांसि विक्रमवतामवतां
न वधूष्वघानि विमृष्यन्ति धियः ॥

अन्वयः AI तत्र पृथु-दाम्नि (पुरुषे) भवतीभिः अन्य-मुनि-वत् विकृतिः मा च परिबोधि । विक्रम-वताम् अवताम् धियः स्व-यशांसि (विमृष्यन्ति), वधूषु अघानि न विमृष्यन्ति ।
English Summary AI "And do not think that a change can be wrought in that man of great glory as in other sages. The minds of the valiant and protective consider their own fame; they do not contemplate committing sins against women."
सारांश AI आप उसे अन्य ऋषियों के समान विचलित होने वाला न समझें। अपने यश की रक्षा करने वाले पराक्रमी पुरुषों की बुद्धि स्त्रियों के प्रति पापपूर्ण विचार नहीं करती।
घण्टापथव्याख्या (मल्लिनाथः) पृथ्विति॥ पृथुधाम्निमहातेजसि तत्र तस्मिन्पुरुषविषयेऽन्यमुनिवदन्यस्मिन्मुनाविव। तत्र तस्येव (अष्टाध्यायी ५.१.११६ ) इति वतिप्रत्ययः । विकृतिः कोपविकारश्च भवतीभिर्मा परिबोधि मा विज्ञायि। मा शङ्कीति यावत् । बुध्यतेः कर्मणि लुङ् । माङ्योगादाशीरथैऽडागमाभावश्च । तथा हि । स्वयशांस्यवतां रक्षताम् । यशोधनानामित्यर्थः । विक्रमवतां धियश्चित्तानि वधूषु स्त्रीविषयेष्वधानि व्यसनानि । 'दुःखैनोव्यसनेष्वधम्” इति वैजयन्ती। न विमृषन्ति। अर्थान्तरन्यासः। स्त्री हिंसायाः शूराणां यशोहानिकरत्वान्न सर्वथा वो हिनस्ति स इत्यर्थः ॥
पदच्छेदः AI
पृथुदाम्निपृथुदामन् (७.१) in that man of great glory
तत्रतत्र in him
परिबोधिपरिबोधि (परि√बुध् +णिच् भावकर्मणोः लुङ् (आत्मने.) म.पु. एक.) be thought
and
मामा let not
भवतीभिःभवत् (३.३) by you
अन्यमुनिवत्अन्यमुनिवत् as in other sages
विकृतिःविकृति (१.१) a change
स्वयशांसिस्वयशस् (२.३) their own fame
विक्रमवताम्विक्रमवत् (६.३) of the valiant
अवताम्अवत् (√अव+शतृ, ६.३) and protective
not
वधूषुवधू (७.३) against women
अघानिअघ (२.३) sins
विमृष्यन्तिविमृष्यन्ति (वि√मृश् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) contemplate
धियःधी (१.३) the minds
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
पृ थु दा म्नि त्र रि बो धि मा
ती भि न्य मु नि द्वि कृ तिः
स्व शां सि वि क्र ता तां
धू ष्व घा नि वि मृ ष्य न्ति धि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.