अविमृष्यमेतदभिलष्यति स
द्विषतां वधेन विषयाभिरतिम् ।
भववीतये न हि तथा स विधिः
क्व शरासनं क्व च विमुक्तिपथः ॥

अन्वयः AI सः द्विषताम् वधेन विषय-अभिरतिम् अभिलष्यति, एतत् अविमृष्यम् । हि भव-वीतये तथा सः विधिः न (भवति) । शरासनम् क्व, विमुक्ति-पथः च क्व?
English Summary AI "He desires worldly pleasures through the slaughter of his enemies; this is ill-considered. Such a method is certainly not for liberation. Where is the bow, and where is the path to salvation? They are utterly incompatible."
सारांश AI वह बिना सोचे-समझे शत्रुओं के वध के माध्यम से विषयों के भोग की इच्छा कर रहा है। मोक्ष प्राप्ति का यह मार्ग नहीं है; क्योंकि धनुष धारण करने और मोक्ष के मार्ग में कोई समानता नहीं है।
घण्टापथव्याख्या (मल्लिनाथः) अविमृष्येति ॥ हे अप्सरसः, स पुरुषो द्विषतां शत्रूणां वधेन शत्रुहननद्वारा विषयाभिरतिं विषयसुखमभिलष्यति वाञ्छति । वा भ्राश- (अष्टाध्यायी ३.१.७० ) इत्यादिना श्यन्प्रत्ययः। एतद्विषयासक्तत्वमविमृष्यमविचार्यम् । अविमृष्यमसंदिग्धव्यमिति । 'ऋदुपधाच्चक्ळृपिचृतेः' इति क्यम् । भवतीभिर्न संदिग्धव्यमित्यर्थः । हि यस्मात्स विधिः स बिभर्ति भीषणभुजङ्गभुजः' इत्यादिश्लोकोक्त्तोऽनुष्ठानप्रकारो भववीतये संसारमुक्तये न भवति । कुत इत्याह-शरासनं धनुः क्व, विमुक्ते: पन्थाश्च क्व । द्वयं परस्परं विरुद्धमित्यर्थः । न खलु हिंसासाध्या मुक्तिरिति भावः । अर्थान्तरन्यासोऽलंकारः ॥ न च शापभयमपि संभाव्यमस्मादित्याह—पृथुधाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः । स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृषन्ति धियः
पदच्छेदः AI
अविमृष्यम्अविमृष्य (वि√मृश्+ण्यत्, २.१) ill-considered
एतत्एतद् (१.१) this is
अभिलष्यतिअभिलष्यति (अभि√लष् कर्तरि लट् (परस्मै.) प्र.पु. एक.) desires
सःतद् (१.१) He
द्विषताम्द्विषत् (६.३) of his enemies
वधेनवध (३.१) through the slaughter
विषयाभिरतिम्विषयअभिरति (२.१) worldly pleasures
भववीतयेभववीति (४.१) for liberation
not
हिहि certainly
तथातथा such
सःतद् (१.१) that
विधिःविधि (१.१) is the method
क्वक्व Where is
शरासनम्शरासन (१.१) the bow
क्वक्व and where is
and
विमुक्तिपथःविमुक्तिपथ (१.१) the path to salvation
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
वि मृ ष्य मे भि ष्य ति
द्वि तां धे वि या भि तिम्
वी ये हि था वि धिः
क्व रा नं क्व वि मु क्ति थः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.