तदुपेत्य विघ्नयत तस्य तपः
कृतिभिः कलासु सहिताः सचिवैः ।
हृतवीतरागमनसां ननु वः
सुखसङ्गिनं प्रति सुखावजितिः ॥

अन्वयः AI तत् सहिताः सचिवैः कलासु कृतिभिः (यूयम्) उपेत्य तस्य तपः विघ्नयत । ननु हृत-वीतराग-मनसाम् वः सुख-सङ्गिनम् प्रति अवजितिः सुखा (भविष्यति) ।
English Summary AI "Therefore, go forth with your companions (Love and Spring) and, with your skills in the arts, obstruct his penance. For you, who can captivate the minds of even the passionless, victory over one attached to worldly pleasure will surely be easy."
सारांश AI अतः आप अपनी कलाओं में निपुण सखियों के साथ जाकर अर्जुन की तपस्या में विघ्न डालें। जिन्होंने वीतरागियों के मन को भी जीत लिया है, उनके लिए सुख की इच्छा रखने वाले को जीतना अत्यंत सरल है।
घण्टापथव्याख्या (मल्लिनाथः) तदिति ॥ तत्तस्मात्समर्थत्वात्कालासु गीतवाद्यादिषु कृतिभिः कुशलैः सचिवैर्गन्धर्वैः सहिता उपेत्य गत्वा तस्य पुरुषस्य तपो विघ्नयत विघ्नवत्कुरुत । विहतेत्यर्थः । विघ्नवच्छब्दान्मत्वन्तात् तत्करोति इति णिचि लोट् । णाविष्टवद्भावान्मतुपो लुक् । न चात्रासामर्थ्यशङ्का कार्येत्यर्थान्तरन्यासेनाह-हृतेति । ननु संबोधने । हे अप्सरस:, हृतानि वशीकृतानि वीतरागाणां निस्पृहाणां मुमुक्षूणां मनांसि चित्तानि याभिस्तासां वो युष्माकमप्सरसां सुखसङ्गिनं पुरुषं प्रति सुखाभिलाषिणं प्रत्यवजितिर्विजयः सुखा सुखसाध्या न तु दुष्करा खलु । एतेनायसुखार्थी न मुमुक्षुरित्युक्तम् । अर्थान्तरन्यासः॥ अथ सुखसङ्गित्वलिङ्गमाह
पदच्छेदः AI
तत्तत् Therefore
उपेत्यउपेत्य (उप√इ+ल्यप्) go forth
विघ्नयतविघ्नयत (√विघ्नय +क्यच् कर्तरि लोट् (परस्मै.) म.पु. बहु.) obstruct
तस्यतद् (६.१) his
तपःतपस् (२.१) penance
कृतिभिःकृति (३.३) with your accomplishments
कलासुकला (७.३) in the arts
सहिताःसहित (१.३) accompanied
सचिवैःसचिव (३.३) by your companions (Love and Spring)
हृतवीतरागमनसाम्हृतवीतरागमनस् (६.३) of you who captivate the minds of the passionless
ननुननु Surely
वःयुष्मद् (६.३) your
सुखसङ्गिनम्सुखसङ्गिन (२.१) one attached to pleasure
प्रतिप्रति over
सुखावजितिःसुखअवजिति (१.१) an easy victory
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
दु पे त्य वि घ्न स्य पः
कृ ति भिः ला सु हि ताः चि वैः
हृ वी रा सां नु वः
सु ङ्गि नं प्र ति सु खा जि तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.