Loading data... On slow networks this could take a few minutes.
100%

सुकुमारमेकमणु मर्मभिदा-
मतिदूरगं युतममोघतया ।
अविपक्षमस्त्रमपरं कतम-
द्विजयाय यूयमिव चित्तभुवः ॥

अन्वयः AI मर्म-भिदाम् चित्त-भुवः विजयाय, सुकुमारम्, अणु, अति-दूर-गम्, अमोघतया युतम्, अविपक्षम्, यूयम् इव अपरम् एकम् कतमत् अस्त्रम् (अस्ति)?
English Summary AI "For the victory of the mind-born Kama, the piercer of vital spots, what other single weapon is there like you—delicate, subtle, far-reaching, endowed with infallibility, and unopposed?"
सारांश AI इंद्र ने कहा कि तुम अप्सराएं कामदेव के उस अमोघ शस्त्र के समान हो जो कोमल और सूक्ष्म होने पर भी मर्म को भेद देता है। इस विजय अभियान के लिए तुम्हारे अतिरिक्त और कौन सा श्रेष्ठ अस्त्र हो सकता है?
घण्टापथव्याख्या (मल्लिनाथः) सुकुमारमिति ॥ मर्मभिदां मर्मच्छेदिनाम् । अस्त्रान्तराणां मध्य इत्यर्थः । यतश्च निर्धारणम् (अष्टाध्यायी २.३.४१ ) इति षष्टी । अपरमन्यत्कतमत् । वा बहृनां जातिपरिप्रश्ने डतमच् । यूयमिव सुकुमारं कोमलं न तु कठिनम् । अन्यत्तु कठिनं भवति । तथैकं न बहु । तत्त्वनेकं भवति।तथाणु सूक्ष्मं न स्थूलम् । अलक्ष्यलक्ष्यप्रवेशित्वादिति भाव:। तत्तु लक्ष्यलक्ष्यप्रवेशि । तथातिदूरगं दूरलक्ष्यभेदि । तत्तु समीपलक्ष्यभेदि । तथामोघतयामोघत्वगुणेन युतं युक्तम् । न कदाचिद्व्यभिचरतीति भावः । अन्यत्तु कदाचिदपि लक्ष्यादपराध्यति । तथाविपक्षमसत्प्रतिकारम् । अन्यतु विद्यमानप्रतीकारम् । चित्तभुवः कामस्य । कर्तरि षष्ठी । विजयाय । एतद्विशेषणविशिष्टमस्त्रमस्तीति शेषः। न किंचिदस्तीत्यर्थः । अत्रोपमालंकारः । साभिप्रायविशेषणत्वात्परिकरालंकारश्च । तयोरुभयोरङ्गाङ्गिभावेन संकरः ॥ असामर्थ्यशङ्कां परिहरति
पदच्छेदः AI
सुकुमारम्सुकुमार (१.१) delicate
एकम्एक (१.१) single
अणुअणु (१.१) subtle
मर्मभिदाम्मर्मभित् (६.१) of the piercer of vital spots
अतिदूरगम्अतिदूरग (१.१) far-reaching
युतम्युत (√यु+क्त, १.१) endowed
अमोघतयाअमोघता (३.१) with infallibility
अविपक्षम्अविपक्ष (१.१) unopposed
अस्त्रम्अस्त्र (१.१) weapon
अपरम्अपर (१.१) other
कतमत्कतम (१.१) what
विजयायविजय (४.१) for the victory
यूयम्युष्मद् (१.३) you
इवइव like
चित्तभुवःचित्तभु (६.१) of the mind-born (Kama)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
सु कु मा मे णु र्म भि दा
ति दू गं यु मो या
वि क्ष स्त्र रं
द्वि या यू मि चि त्त भु वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.