Loading data... On slow networks this could take a few minutes.
100%

उदितोपलस्खलनसंवलिताः
स्फुटहंससारसविरावयुजः ।
मुदमस्य माङ्गलिकतूर्यकृतां
ध्वनयः प्रतेनुरनुवप्रमपाम् ॥

अन्वयः AI उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः अपाम् ध्वनयः अनुवप्रम् अस्य माङ्गलिकतूर्यकृतां मुदं प्रतेनुः ।
English Summary AI The sounds of the waters, mingled with the noise of rolling pebbles and joined with the clear calls of swans and cranes, spread along the riverbanks, bringing him the kind of joy produced by auspicious musical instruments.
सारांश AI पत्थरों से टकराकर उठती लहरों की ध्वनि और पक्षियों की कूक ने जल के निकट अर्जुन के लिए मांगलिक वाद्यों के समान आनंदमय वातावरण निर्मित कर दिया।
घण्टापथव्याख्या (मल्लिनाथः) उदितेति ॥ उदितोपलेषून्नतपाषाणेषु स्खलनेन प्रतिघातेन संवलिताश्चूर्णिताः । अतस्तूर्यघोष इव घुमघुमायमाना इत्यर्थः । स्फुटैर्हँसानां सारसानां च विरावैर्युज्यन्त इति तथोक्ताः। क्विप् । अनुवप्रमपाम् । अन्तः पतन्तीनामिति शेषः ध्वनयोऽस्यार्जुनस्य मङ्गलं प्रयोजनमेषां ते माङ्गलिकाः । प्रयोजनम् (अष्टाध्यायी ५.१.१०९ ) इति ठञ् । तैस्तूर्यैः कृतां मुदं हर्षं प्रतेनुः । अत्रान्यस्यान्यकार्यकारणासंभवात्तूर्यकृतमुत्सदृशीं मुदमिति प्रतिविम्बेनाक्षेपान्निदर्शनालंकारः॥
पदच्छेदः AI
उदितोपलस्खलनसंवलिताःउदित (उद्√इ+क्त)उपलस्खलनसंवलित (सम्√वल्+क्त, १.३) mingled with the sound of rolling pebbles
स्फुटहंससारसविरावयुजःस्फुटहंससारसविरावयुज् (√युज्+क्विप्, १.३) joined with the clear calls of swans and cranes
मुदम्मुद् (२.१) joy
अस्यइदम् (६.१) his
माङ्गलिकतूर्यकृताम्माङ्गलिकतूर्यकृत (√कृ+क्त, २.१) created by auspicious musical instruments
ध्वनयःध्वनि (१.३) the sounds
प्रतेनुःप्रतेनुः (प्र√तन् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) spread
अनुवप्रम्अनुवप्रम् along the banks
अपाम्अप् (६.३) of the waters
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
दि तो स्ख सं लि ताः
स्फु हं सा वि रा यु जः
मु स्य मा ङ्ग लि तू र्य कृ तां
ध्व यः प्र ते नु नु प्र पाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.