ऋषिवंशजः स यदि दैत्यकुले
यदि वान्वये महति भूमिभृताम् ।
चरतस्तपस्तव वनेषु सदा
न वयं निरूपयितुमस्य गतिम् ॥

अन्वयः AI सः ऋषि-वंश-जः यदि, दैत्य-कुले (जातः) यदि, वा महति भूमि-भृताम् अन्वये (जातः) यदि, (इति) तव वनेषु सदा तपः चरतः अस्य गतिम् निरूपयितुम् वयम् न (शक्ताः) ।
English Summary AI "Whether he is born from a lineage of sages, or in a family of demons, or in the great dynasty of kings—we are unable to determine the origin of this man who is constantly performing penance in your forests."
सारांश AI वह पुरुष किसी श्रेष्ठ ऋषि के वंश से है, दैत्य कुल से है या किसी प्रतापी राजा के कुल से, यह हम नहीं जानते। वन में विचरने वाले हम लोग उनकी वास्तविकता और उद्देश्य को समझने में असमर्थ हैं।
घण्टापथव्याख्या (मल्लिनाथः) ऋषीति ॥ स पुरुषः । ऋषिवंशजो वेति शेषः। काकुर्वा । यदि वा दैत्यकुले । जात इति शेषः। यदि वा महति भूमिभृतामन्वये जातः। तव वनेषु तपश्चरतोऽस्य गतिं स्वरूपं निरूपयितुं वयम् । सहन्त इति सहाः । पचाद्यच् । न सहाः । स्म इति शेषः । अपृष्टपरिभाषणापराधं परिहरन्ति
पदच्छेदः AI
ऋषिवंशजःऋषिवंश (१.१) is born from a lineage of sages
सःतद् (१.१) He
यदियदि whether
दैत्यकुलेदैत्यकुल (७.१) in a family of demons
यदियदि whether
वावा or
अन्वयेअन्वय (७.१) in the dynasty
महतिमहत् (७.१) great
भूमिभृताम्भूमिभृत् (६.३) of kings
चरतःचरत् (√चर्+शतृ, ६.१) of him who performs
तपःतपस् (२.१) penance
तवयुष्मद् (६.१) your
वनेषुवन (७.३) in the forests
सदासदा constantly
not
वयम्अस्मद् (१.३) we are
निरूपयितुम्निरूपयितुम् (नि√रूप्+णिच्+तुमुन्) able to determine
अस्यइदम् (६.१) his
गतिम्गति (२.१) origin
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
षि वं जः दि दै त्य कु ले
दि वा न्व ये ति भू मि भृ ताम्
स्त स्त ने षु दा
यं नि रू यि तु स्य तिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.