उरु सत्त्वमाह विपरिश्रमता
परमं वपुः प्रथयतीव जयम् ।
शमिनोऽपि तस्य नवसंगमने
विभुतानुषङ्गि भयमेति जनः ॥

अन्वयः AI (तस्य) विपरिश्रमता उरु सत्त्वम् आह । परमम् वपुः जयम् प्रथयति इव । शमिनः अपि तस्य नव-संगमने जनः विभुता-अनुषङ्गि भयम् एति ।
English Summary AI "His lack of fatigue indicates great inner strength. His supreme physique seems to proclaim victory. Though he is tranquil, upon first meeting him, people feel an awe that accompanies greatness."
सारांश AI उनकी बिना थकान वाली तपस्या और महान धैर्य उनकी भावी विजय को स्पष्ट करते हैं। यद्यपि वे अत्यंत शांत चित्त हैं, फिर भी उनके अलौकिक प्रभाव के कारण लोग उनके समीप जाने में भय का अनुभव करते हैं।
घण्टापथव्याख्या (मल्लिनाथः) उर्विति ॥ किं च । विपरिश्रमतायासेऽपि श्रमराहित्यमुरु महत्सत्त्वमन्तःसारमाह। दुर्बलस्य श्रमजयासंभवादिति भावः । परममुत्तमं वपुर्जयं प्रथयति च । आकारेणैव, जिष्णुत्वं गम्यत इत्यर्थः । शमिनः शान्तस्यापि तस्य नवसंगमनेऽपूर्वप्राप्तौ जनो विभुतायाः प्रभावस्यानुषङ्गि व्यापकम् । न तु हिंस्रकत्वानुषङ्गीति भावः । भयमेति । शान्तोद्भवं प्रभावं गमयतीति भावः ॥ अथेदृशोऽसौ क इति चेत्तन्न विद्म इत्याहु:—ऋषिवंशजःस यदि दैत्यकुले यदि वान्वये महति भू मिभृताम् । चरतस्तपस्तव वनेषु सहा न वयं निरूपयितुमस्य गतिम्
पदच्छेदः AI
उरुउरु (२.१) great
सत्त्वम्सत्त्व (२.१) inner strength
आहआह (√अह् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) indicates
विपरिश्रमताविपरिश्रमता (१.१) His lack of fatigue
परमम्परम (१.१) His supreme
वपुःवपुस् (१.१) physique
प्रथयतिप्रथयति (√प्रथ् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) proclaims
इवइव as if
जयम्जय (२.१) victory
शमिनःशमिन् (६.१) of the tranquil one
अपिअपि Though
तस्यतद् (६.१) his
नवसंगमनेनवसंगमन (७.१) upon first meeting
विभुतानुषङ्गिविभुतानुषङ्गिन् (२.१) that accompanies greatness
भयम्भय (२.१) awe
एतिएति (√इ कर्तरि लट् (परस्मै.) प्र.पु. एक.) feels
जनःजन (१.१) a person
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
रु त्त्व मा वि रि श्र ता
मं पुः प्र ती यम्
मि नो ऽपि स्य सं ने
वि भु ता नु ङ्गि मे ति नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.