Loading data... On slow networks this could take a few minutes.
100%

इतरेतरानभिभवेन मृगा-
स्तमुपासते गुरुमिवान्तसदः ।
विनमन्ति चास्य तरवः प्रचये
परवान्स तेन भवतेव नगः ॥

अन्वयः AI मृगाः इतरेतर-अनभिभवेन तम् उपासते, अन्तसदः गुरुम् इव । अस्य प्रचये तरवः च विनमन्ति । तेन सः नगः भवता इव परवान् (अस्ति) ।
English Summary AI "Wild animals, without harming one another, attend to him as disciples attend a guru. The trees bend down for him to gather from. Because of him, that mountain seems to have you as its master."
सारांश AI हिंसक पशु भी अपना आपसी वैर भुलाकर शिष्यों की भांति उसके पास बैठते हैं। वृक्ष झुककर उसे प्रणाम करते हैं। वह पर्वत भी आपके समान ही उसके प्रभाव के वश में दिखाई पड़ता है।
घण्टापथव्याख्या (मल्लिनाथः) इतरेतरेति ॥ किं च । मृगाः पशवस्तम् । अन्तेऽन्तिके सीदन्तीत्यन्तसदोऽन्तेवासिनः। सत्सूद्धिष- इति क्विप् । गुरुमिवेतरेतरेषामनभिभवेनाद्रोहेणोपासते सेवन्ते । प्रचये पुष्पावचये तरवोऽस्य विनमन्ति । करप्रचेया भवन्तीत्यर्थः । अस्येति संबन्धसामान्ये षष्ठी। किं बहुना । स नग इन्द्रकीलो भवतेव तेन पुरुषेण परवान्पराधीनः सात्विकस्यापि तवेव तस्यातिशयो वर्तत इत्यर्थः ॥
पदच्छेदः AI
इतरेतरानभिभवेनइतरेतर–अनभिभव (३.१) without harming one another
मृगाःमृग (१.३) The wild animals
तम्तद् (२.१) him
उपासतेउपासते (उप√आस् कर्तरि लट् (आत्मने.) प्र.पु. बहु.) attend to
गुरुम्गुरु (२.१) a guru
इवइव like
अन्तसदःअन्तसद् (१.३) disciples
विनमन्तिविनमन्ति (वि√नम् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) bend down
and
अस्यइदम् (६.१) for him
तरवःतरु (१.३) the trees
प्रचयेप्रचय (७.१) for gathering
परवान्परवत् (१.१) has a master
सःतद् (१.१) that
तेनतद् (३.१) because of him
भवताभवत् (३.१) you
इवइव as if
नगःनग (१.१) mountain
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
रे रा भि वे मृ गा
स्त मु पा ते गु रु मि वा न्त दः
वि न्ति चा स्य वः प्र ये
वा न्स ते ते गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.