मरुतः शिवा नवतृणा जगती
विमलं नभो रजसि वृष्टिरपाम् ।
गुणसम्पदानुगुणतां गमितः
कुरुतेऽस्य भक्तिमिव भूतगणः ॥

अन्वयः AI मरुतः शिवाः (भवन्ति), जगती नव-तृणा (भवति), नभः विमलम् (भवति), रजसि अपाम् वृष्टिः (भवति) । गुण-सम्पदा अनुगुणताम् गमितः भूत-गणः अस्य भक्तिम् इव कुरुते ।
English Summary AI "The winds are gentle, the earth is covered with new grass, the sky is clear, and rain settles the dust. The entire host of elements, brought into conformity by his wealth of virtues, seems to render devotion to him."
सारांश AI सुखद वायु, नवीन घास, निर्मल आकाश और धूल को शांत करती जलवृष्टि—ऐसा लगता है जैसे समस्त प्रकृति अपने श्रेष्ठ गुणों के साथ उस तपस्वी की भक्ति और सेवा में लीन हो गई है।
घण्टापथव्याख्या (मल्लिनाथः) मरुतो वार्ताः शिवाः सुखाः । जगती पृथ्वी नवतृणा । शयनासनाद्यनुकूलेत्यर्थः । नभो विमलं नीहारादिरहितम् । रजसि सत्यपां वृष्टिः। भवतीति शेषः । किं वहुना। अस्य पुरुपस्य गुणसंपदा भूतहितादिगुणसंपत्त्यानुगुणतामनुकूलतां गमितः । वशीकृत इत्यर्थः । भूतगणः पृथिव्यादिपञ्चकं भक्तिं सेवां कुरुत इवेत्युत्प्रेक्षा ॥
पदच्छेदः AI
मरुतःमरुत् (१.३) The winds
शिवाःशिव (१.३) are gentle
नवतृणानवतृण (१.१) with new grass
जगतीजगती (१.१) the earth is
विमलम्विमल (१.१) is clear
नभःनभस् (१.१) the sky
रजसिरजस् (७.१) the dust
वृष्टिःवृष्टि (१.१) a rain
अपाम्अप् (६.३) of water (settles)
गुणसम्पदानुगुणताम्गुणसम्पद्–अनुगुणता (२.१) into conformity with the wealth of virtues
गमितःगमित (√गम्+णिच्+क्त, १.१) Brought
कुरुतेकुरुते (√कृ कर्तरि लट् (आत्मने.) प्र.पु. एक.) renders
अस्यइदम् (६.१) to him
भक्तिम्भक्ति (२.१) devotion
इवइव as if
भूतगणःभूतगण (१.१) the host of elements
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
रु तः शि वा तृ णा ती
वि लं भो सि वृ ष्टि पाम्
गु म्प दा नु गु तां मि तः
कु रु ते ऽस्य क्ति मि भू णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.