Loading data... On slow networks this could take a few minutes.
100%

रुचिराकृतिः कनकसानुमथो
परमः पुमानिव पतिं पतताम् ।
धृतसत्पथस्त्रिपथगामभितः
स तमारुरोह पुरुहूतसुतः ॥

अन्वयः AI अथो रुचिराकृतिः धृतसत्पथः पुरुहूतसुतः सः परमः पुमान् इव पततां पतिं तं कनकसानुम् अभितः त्रिपथगाम् आरुरोह ।
English Summary AI Then Arjuna, son of Indra, who was of handsome form and adhered to the righteous path, ascended that golden-peaked mountain, the lord of all mountains, which was situated near the Ganga. He did so like the Supreme Being (Vishnu) ascending Garuda, the king of birds.
सारांश AI सुंदर आकृति वाले इंद्रपुत्र अर्जुन, जो सत्पथ पर चलने वाले हैं, श्रेष्ठ पुरुष (विष्णु) के समान गंगा के तट पर स्थित उस इंद्रकील पर्वत पर चढ़ने लगे।
घण्टापथव्याख्या (मल्लिनाथः) अथ हिप्रवद्वर्णनमारभते । तत्र पञ्चदशभिः कुलकमाह रुचिराकृतिरिति ॥ अथो आसादनानन्तरं रुचिराकृतिः सौम्यविग्रहो धृतसत्पथोऽवलम्बितसन्मार्गः । आकारानुरूपगुणवानित्यर्थः। यत्राकृतिस्तत्र गुणा वसन्ति इति सामुद्रिकाः। उपमानेऽपि समानमेतत्।स पुरुहूतसुतोऽर्जुनः। कनकस्य विकाराः सानवो यस्य तं कनकसानुम् । गरुडसावर्ण्यार्थं विशेषणमेतत् । समुदाये विकारषष्ठ्योश्च इति वहुव्रीहिरुत्तरपदलोपश्च ।तमिन्द्रकीलम् । परमः पुमान्विष्णुः पततां पक्षिणां पति गरुडमिव । त्रिभिः पथिभिर्गच्छतीति त्रिपथगा भागीरथी । अन्येष्वपि दृश्यते (अष्टाध्यायी ३.२.१०१ ) इति डप्रत्ययः । उपपदसमास उत्तरपदसमासश्च । तामभितोऽभिमुखमारुरोह । समीपोभयतःशीघ्रसाकल्याभिमुखेऽभितः इत्यमरः । प्रमिताक्षरावृत्तम्—प्रमिताक्षरा सजससैरुदिता इति लक्षणात् ॥ अथास्य कार्यसिद्धिनिमित्तानि सूचयन्मार्गं वर्णयति-
पदच्छेदः AI
रुचिराकृतिःरुचिरआकृति (१.१) of handsome form
कनकसानुम्कनकसानु (२.१) the golden-peaked one
अथोअथो then
परमःपरम (१.१) supreme
पुमान्पुंस् (१.१) being
इवइव like
पतिंपति (२.१) the lord
पतताम्पतत् (√पत्+शतृ, ६.३) of the flying ones (birds/mountains)
धृतसत्पथःधृत (√धृ+क्त)सत्पथ (१.१) he who held to the righteous path
त्रिपथगाम्त्रिपथत्रिपथगा (√गम्+ड, २.१) the Ganga (flowing in three paths)
अभितःअभितः near
तद् (१.१) he
तम्तद् (२.१) it (the mountain)
आरुरोहआरुरोह (आ√रुह् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) ascended
पुरुहूतसुतःपुरुहूतसुत (१.१) the son of Indra (Arjuna)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
रु चि रा कृ तिः सा नु थो
मः पु मा नि तिं ताम्
धृ त्प स्त्रि गा भि तः
मा रु रो पु रु हू सु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.