Loading data... On slow networks this could take a few minutes.
100%

तमनतिशयनीयं सर्वतः सारयोगा-
दविरहितमनेकेनाङ्कभाजा फलेन ।
अकृशमकृशलक्ष्मीश्चेतसाशंसितं स
स्वमिव पुरुषकारं शैलमभ्याससाद ॥

अन्वयः AI अकृशलक्ष्मीः सः सर्वतः सारयोगात् अनतिशयनीयम्, अनेकेन अङ्कभाजा फलेन अविरहितम्, अकृशम्, चेतसाशंसितं तं शैलं स्वं पुरुषकारम् इव अभ्याससाद ।
English Summary AI He (Arjuna), of unfailing fortune, approached that mountain—which was unsurpassable due to its inherent strength, endowed with many attendant rewards, magnificent, and praised by his heart—as if it were his own great endeavor.
सारांश AI अपनी शक्ति के कारण अपराजेय, अनेक फलों से युक्त और मनचाही महान शोभा वाले उस पर्वत के पास अर्जुन उसी प्रकार पहुँचे, जैसे वे अपने पुरुषार्थ के पास पहुँचते हैं।
घण्टापथव्याख्या (मल्लिनाथः) तमिति ॥ अकृशाः पूर्णा लक्ष्म्यः शोभा यस्य सोऽकृशलक्ष्मीरिति बहुवचनाश्रितो बहुव्रीहिः । एवं च उरःप्रभृतिभ्यः- (अष्टाध्यायी ५.४.१५१ ) इति कप्प्रत्ययानवकाशः। तत्र लक्ष्मीशब्दस्यैकवचनान्तस्यैव पाठात् । नापि नधृतश्च इत्यस्यावकाशः । उरःप्रभृतिपाठसामर्थ्यादेवशैषिकस्तु वैभाषिक इत्यविरोधः। सोऽर्जुनः सर्वतः सर्वत्र सारयोगादुत्कृष्टबलप्रयोगात् । सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु इत्युभयत्राप्यमरः। अनतिशयनीयमनतिक्रमणीयमनेकेन बहुनाङ्कभाजा समीपं गतेन । शीघ्रभाविनेति यावत् । फलेन कार्यसिद्ध्याविरहितमशून्यम् । कार्यसिद्धेरवश्यं साधकमित्यर्थः । अकृशमतनुं चेतसाशंसितं प्रातुमिष्टं शैलमिन्द्रकीलं स्वमात्मीयम् । पुरुषस्य कारः कर्म तं पुरुषकारमुक्तविशेषणविशिष्टं पौरुषमिवाभ्याससाद प्राप्तवान् । मालिनीवृत्तम्
पदच्छेदः AI
तम्तद् (२.१) that
अनतिशयनीयं–अतिशयनीय (अति√शी+अनीयर्, २.१) unsurpassable
सर्वतःसर्वतः from all aspects
सारयोगात्सारयोग (५.१) due to its inherent strength
अविरहितम्विरहित (वि√रह्+क्त, २.१) not devoid of
अनेकेनअनेक (३.१) with many
अङ्कभाजाअङ्कअङ्कभाज् (√भज्+ण्वि, ३.१) attendant
फलेनफल (३.१) rewards
अकृशम्कृश (२.१) magnificent
अकृशलक्ष्मीःकृशलक्ष्मी (१.१) he of unfailing fortune
चेतसाशंसितंचेतस्आशंसित (आ√शंस+क्त, २.१) praised by the heart
तद् (१.१) he
स्वम्स्व (२.१) his own
इवइव as if
पुरुषकारंपुरुषकार (२.१) great endeavor
शैलम्शैल (२.१) mountain
अभ्याससादअभ्याससाद (अभि+आ√सद् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) approached
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
ति नी यं र्व तः सा यो गा
वि हि ने के ना ङ्क भा जा ले
कृ कृ क्ष्मी श्चे सा शं सि तं
स्व मि पु रु का रं शै भ्या सा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.