दधतमाकरिभिः करिभिः क्षतैः
समवतारसमैरसमैस्तटैः ।
विविधकामहिता महिताम्भसः
स्फुटसरोजवना जवना नदीः ॥

अन्वयः AI आकरिभिः करिभिः क्षतैः, समवतारसमैः असमैः तटैः (युक्ताः), विविधकामहिताः, महिताम्भसः, स्फुटसरोजवनाः, जवनाः नदीः दधतम् (हिमाचलम्)।
English Summary AI (He approached the Himalaya) which held swift rivers. Their banks, both even and uneven, were marked by the tusks of elephants from the mines. These rivers fulfilled various desires, had revered waters, and possessed forests of blooming lotuses.
सारांश AI मदमस्त हाथियों द्वारा तोड़े गए ऊबड़-खाबड़ तटों वाली और खिले हुए कमलों से युक्त वेगवती नदियाँ उस पर्वत की शोभा को और अधिक बढ़ा रही थीं।
घण्टापथव्याख्या (मल्लिनाथः) दधतमिति ॥ पुनश्च । आकरः खनिरेषामस्तीति योनित्वेमेत्याकरिभिराकरजैः। खनिः स्त्रियामाकरः स्यात् इत्यमरः (अमरकोशः २.३.७ ) । करिभिर्गजैः कर्तृभिः क्षतै रुग्णैः समवतारेषु तीर्थेषु समैरविषमैरसमैसरदृशैः। अनुपमैरित्यर्थः । तटैरुपलक्षितास्तथा महिताम्भसः श्लाघ्योदका अतएव विविधेभ्यः कामेभ्योऽवगाहनाद्युपभोगेभ्यो हिता अनुकूलाः । चतुर्थी तदर्थ— (अष्टाध्यायी २.१.३६ ) इत्यादिना समासः। स्फुटानि विकसितानि सरोजवनानि यासु ताः । जवना वेगवतीः । “जुचङ्क्रम्य-'इत्यादिना युचू । नदीर्दधतम् । यमकंवृत्त्यनुप्रासभेदत्वात्स्वयमेवालंकारः । अर्थालंकारस्त्वभ्युच्चयः। तस्यातिदुष्करत्वाद्रसपोषोऽपि नाद्रियते । तदुक्तम्-'प्रायशो यमके चित्रे रसवृद्धिर्न मृग्यते' ॥
पदच्छेदः AI
दधतम्दधत् (√धा+शतृ, २.१) holding
आकरिभिःआकरिन् (३.३) by elephants from mines
करिभिःकरिन् (३.३) by elephants
क्षतैःक्षत (√क्षण्+क्त, ३.३) by being wounded/marked
समवतारसमैःसमअवतारसम (३.३) by those even with easy descents
असमैःअसम (३.३) and uneven
तटैःतट (३.३) with banks
विविधकामहिताःविविधकामहित (२.३) fulfilling various desires
महिताम्भसःमहितअम्भस् (२.३) having revered waters
स्फुटसरोजवनाःस्फुटसरोजवन (२.३) having forests of blooming lotuses
जवनाःजवन (२.३) swift
नदीःनदी (२.३) rivers
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
मा रि भिः रि भिः क्ष तैः
ता मै मै स्त टैः
वि वि का हि ता हि ता म्भ सः
स्फु रो ना ना दीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.