भव्यो भवन्नपि मुनेरिह शासनेन
क्षात्रे स्थितः पथि तपस्य हतप्रमादः ।
प्रायेण सत्यपि हितार्थकरे विधौ हि
श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥

अन्वयः AI इह मुनेः शासनेन भव्यः भवन् अपि, क्षात्रे पथि स्थितः त्वं तपसि हतप्रमादः भव । हि प्रायेण हितार्थकरे विधौ सति अपि अन्तरायैः विना श्रेयांसि लब्धुम् असुखानि भवन्ति ।
English Summary AI Though you are capable, by the sage's instruction, remain steadfast on the warrior's path and be vigilant in your penance. For, generally, even when destiny is favorable and aims to bring benefit, great achievements are difficult to attain without obstacles.
सारांश AI समर्थ होते हुए भी आप मुनि की आज्ञा से क्षत्रिय धर्म पर चलते हुए प्रमाद रहित होकर तपस्या करें, क्योंकि कल्याणकारी साधन होने पर भी बिना विघ्नों के श्रेय की प्राप्ति दुर्लभ होती है।
घण्टापथव्याख्या (मल्लिनाथः) भव्य इति ॥ इहाद्रौ भव्यः शान्तो भवन्नपि मुनेर्व्यासस्य शासनेनेन्द्राराधनरूपेण क्षात्रे पथि क्षत्रियमार्गे स्थितः। गृहीतशस्त्र एवेत्यर्थः। हतप्रमादोऽप्रमत्तः सन्। तपस्य तपश्चर्यां कुरु । तपस्येति कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (अष्टाध्यायी ३.१.१५ ) इति क्यङ् । तदन्ताद्धातोर्लोट् । न च सर्वभूतहितकारिणो मे प्रमादः किं करिष्यतीति विश्वसितव्यमित्यर्थान्तरन्यासेनाहहि यस्मात्प्रायेण बाहुल्येन। प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोःइति हेमचन्द्रः। हितमर्थं करोतीति हितार्थकरे विधौ व्यापारे सति । अन्तरायैर्विघ्नैर्विना श्रेयांसि लब्धुमसुखानि । अशक्यानीत्यर्थः। अतएव शकधृष— (अष्टाध्यायी ३.४.६५ ) इत्यादिना समानकर्तृकेषु तुमुन् । अकारणवैरिणः सर्वत्र सर्वस्यापि सन्तीति भावः ॥
पदच्छेदः AI
इहइह here
मुनेःमुनि (६.१) of the sage
शासनेनशासन (३.१) by the instruction
भव्यःभव्य (√भू+यत्, १.१) capable
भवन्भवत् (√भू+शतृ, १.१) being
अपिअपि even though
क्षात्रेक्षात्र (७.१) on the warrior's
पथिपथिन् (७.१) path
स्थितःस्थित (√स्था+क्त, १.१) steadfast
तपसितपस् (७.१) in penance
हतप्रमादःहत (√हन्+क्त)प्रमाद (१.१) one whose negligence is destroyed (be vigilant)
प्रायेणप्राय (३.१) generally
सतिसत् (√अस्+शतृ, ७.१) being
अपिअपि even
हितार्थकरेहितअर्थकर (√कृ+अच्, ७.१) in a fate that brings about benefit
विधौविधि (७.१) in fate
हिहि for
श्रेयांसिश्रेयस् (२.३) great achievements
लब्धुम्लब्धुम् (√लभ्+तुमुन्) to obtain
असुखानिसुख (१.३) are difficult
विनाविना without
अन्तरायैःअन्तराय (३.३) obstacles
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
व्यो न्न पि मु ने रि शा ने
क्षा त्रे स्थि तः थि स्य प्र मा दः
प्रा ये त्य पि हि ता र्थ रे वि धौ हि
श्रे यां सि ब्धु सु खा नि वि ना न्त रा यैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.