क्षिपति योऽनुवनं विततां बृह-
द्बृहतिकामिव रौचनिकीं रुचम् ।
अयमनेकहिरण्मयकंदर-
स्तव पितुर्दयितो जगतीधरः ॥

अन्वयः AI यः अनुवनं विततां बृहद्बृहतिकाम् इव रौचनिकीं रुचम् क्षिपति, अनेकहिरण्मयकंदरः अयं जगतीधरः तव पितुः दयितः।
English Summary AI This mountain, which has many golden caves and spreads a widespread yellow glow throughout the forest like a large mark of Rochana pigment, is the beloved of your father, Shiva.
सारांश AI यह अनेक स्वर्णमयी गुफाओं वाला पर्वत, जो पूरे वन में गोरोचन के समान पीली आभा को एक विशाल चादर की तरह फैला रहा है, तुम्हारे पिता इन्द्र का प्रिय पर्वत है।
घण्टापथव्याख्या (मल्लिनाथः) क्षिपतीति ॥ अथ योऽद्रिरनुवनं विततां रौचनिकीं रुचम्। सौवर्णीं कान्तिमित्यर्थः। रोचनया रक्तां रौचनिकीम् । लाक्षारोचनशकलकर्दभाट्ठक् इति ठक् । टिड्ढाणञ्- (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप् । उत्प्रेक्षते-बृहती चासौ बृहतिका च तां महोत्तरासङ्गमिव । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा इत्यमरः (अमरकोशः २.६.११८ ) । क्षिपति प्रसारयति । अनेका हिरण्मय्यः कंदरा यस्य सः। हिरण्मयशब्दो दाण्डिनायन- (अष्टाध्यायी ६.४.१७४ ) इत्यादिना निपातनात्साधुः। अयम् । पुरोवर्ती गिरिरित्यर्थः । तव पितुरिन्द्रस्य दयितः प्रियः । जगत्या धरो जगतीधरः । यस्ते गन्तव्य इन्द्रकीलाख्य इत्यर्थः ॥ सक्तिं जवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः। रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति
पदच्छेदः AI
क्षिपतिक्षिपति (√क्षिप् कर्तरि लट् (परस्मै.) प्र.पु. एक.) casts
यःयद् (१.१) which
अनुवनम्अनुवनम् throughout the forest
वितताम्वितत (वि√तन्+क्त, २.१) widespread
बृहद्बृहतिकाम्बृहत्बृहतिका (२.१) a large saffron paste mark
इवइव like
रौचनिकीम्रौचनिकी (२.१) made of Rochana (yellow pigment)
रुचम्रुच् (२.१) lustre
अयम्इदम् (१.१) this
अनेकहिरण्मयकंदरःअनेकहिरण्मय–कंदर (१.१) having many golden caves
तवयुष्मद् (६.१) your
पितुःपितृ (६.१) of your father (Shiva)
दयितःदयित (१.१) beloved
जगतीधरःजगतीधर (१.१) mountain
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
क्षि ति यो ऽनु नं वि तां बृ
द्बृ ति का मि रौ नि कीं रु चम्
ने हि ण्म कं
स्त पि तु र्द यि तो ती रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.