Loading data... On slow networks this could take a few minutes.
100%

सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि
क्षीणपयस्युपेयुषि भिदां जलधरपटले ।
खण्डितविग्रहं बलभिदो धनुरिह विविधाः
पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥

अन्वयः AI इह सम्प्रति क्षीणपयसि लघुनि जलधरपटले शनकैः कथमपि लब्धजन्म (सत्) भिदाम् उपेयुषि, विविधाः शिखरमणिरुचः खण्डितविग्रहं बलभिदः धनुः पूरयितुं विभवः भवन्ति।
English Summary AI Here, when a thin cloud, depleted of water, slowly and somehow comes into being and then breaks apart, the varied lustres of the mountain's peak-jewels are able to complete the fragmented form of Indra's bow (the rainbow).
सारांश AI जलरहित बादलों के फटने पर, इस पर्वत के शिखरों पर जड़े रत्नों की विविध कान्तियाँ इन्द्रधनुष के टूटे हुए अंगों को पूर्ण करने में समर्थ हो रही हैं।
घण्टापथव्याख्या (मल्लिनाथः) संप्रतीति ॥ इहाद्रौ विविधा नानावर्णाः शिखरमणिरुचः संप्रति । शरदीत्यर्थः। लघुन्यगुरुणि कुतः क्षीणपयस्यत एव भिदां भेदम् । षिद्भिदादिभ्योऽङ् (अष्टाध्यायी ३.३.१०४ ) इत्यङ्प्रत्ययः। उपेयुषि गते जलधरपटले मेघमण्डले कथमपि शनकैर्लब्धजन्म । उत्पन्नमित्यर्थः । अत एव खण्डितविग्रहं छिन्नस्वरूपं बलभिद इन्द्रस्य धनुः पूरयितुं विभवः समर्था भवन्ति । अत्रेन्द्रधनुषो मणिरुचीनामसंबन्धे संबन्धकथनादतिशयोक्तिरलंकारः । वंशपत्रपतितं वृत्तम्दिङ्मुनिवंशपत्रपतितं भरनभनलगैः इति लक्षणात् ॥
पदच्छेदः AI
सम्प्रतिसम्प्रति at that time
लब्धजन्मलब्धजन्मन् (१.१) having come into existence
शनकैःशनकैस् slowly
कथमपिकथम्अपि somehow
लघुनिलघु (७.१) on the thin
क्षीणपयसिक्षीणपयस् (७.१) depleted of water
उपेयुषिउपेयिवस् (उप√इ+क्वसु, ७.१) having undergone
भिदाम्भिदा (२.१) fragmentation
जलधरपटलेजलधरपटल (७.१) when the mass of clouds
खण्डितविग्रहम्खण्डित (√खण्ड्+क्त)विग्रह (२.१) whose form is fragmented
बलभिदःबलभिद् (६.१) of Indra
धनुःधनुस् (२.१) the bow (rainbow)
इहइह here
विविधाःविविध (१.३) various
पूरयितुम्पूरयितुम् (√पॄ+णिच्+तुमुन्) to complete
भवन्तिभवन्ति (√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are
विभवःविभव (१.३) capable
शिखरमणिरुचःशिखरमणिरुच् (१.३) the lustres of the peak-jewels
छन्दः वंशपत्रपतितम् [१७: भरनभनलग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
म्प्र ति ब्ध न्म कैः पि घु नि
क्षी स्यु पे यु षि भि दां ले
ण्डि वि ग्र हं भि दो नु रि वि वि धाः
पू यि तुं न्ति वि वः शि णि रु चः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.