Loading data... On slow networks this could take a few minutes.
100%

शुक्लैर्मयूखनिचयैः परिवीतमूर्ति-
र्वप्राभिघातपरिमण्डलितोरुदेहः ।
शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा
कुर्वन्वधूजनमनःसु शशाङ्कशङ्काम् ॥

अन्वयः AI शुक्लैः मयूखनिचयैः परिवीतमूर्तिः वप्राभिघातपरिमण्डलितोरुदेहः गणभर्तुः उक्षा वधूजनमनःसु शशाङ्कशङ्कां कुर्वन् अमुष्य शृङ्गाणि भजते।
English Summary AI Nandi, the bull of Shiva, whose form is enveloped in white rays and whose massive body is rounded for butting against the slopes, resorts to the peaks of this mountain, creating in the minds of the celestial ladies the illusion that he is the moon.
सारांश AI सफेद किरणों से घिरे हुए और तटों पर प्रहार करने से गोल पुष्ट शरीर वाले शिव के नन्दी बैल इस पर्वत के शिखरों पर सुशोभित हैं, जिन्हें देखकर देवांगनाओं के मन में चन्द्रमा का भ्रम उत्पन्न हो रहा है।
घण्टापथव्याख्या (मल्लिनाथः) शुक्लैरिति ॥ शुक्लैर्मयूखनिचयैः शुभ्रकिरणसमूहैः परिवीतमूर्तिर्व्याप्तदेहः । वप्राभिघातेन वप्रकीडया परिमण्डलितो वर्तुलीकृत उरुदेहो बृहच्छरीरो यस्य तथोक्तो गणभर्तुः प्रमथनाथस्योक्षा वृषभः । उक्षानड्वान्वलीवर्द ऋषभो वृषभो वृषः इत्यमरः ।वधूजनमन:सु शशाङ्कशङ्कां चन्द्रभ्रान्तिं कुर्वन् । तेषां मौग्ध्यादिति भावः । अमुष्याद्रे: शृङ्गाणि भजते सेवते । अत्र शङ्काशब्दस्य संदेहार्थत्वे संदेहालंकारः । भ्रान्तिपरत्वे भ्रान्तिमदलंकारः । यथेच्छसि तथास्तु । नवोक्षविशेषणोत्थेन काव्यलिङ्गेनाङ्गाङ्गिभावेन संकीर्यते ॥ संप्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले। खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः
पदच्छेदः AI
शुक्लैःशुक्ल (३.३) with white
मयूखनिचयैःमयूखनिचय (३.३) with masses of rays
परिवीतमूर्तिःपरिवीत (परि√व्ये+क्त)मूर्ति (१.१) whose form is enveloped
वप्राभिघातपरिमण्डलितोरुदेहःवप्रअभिघातपरिमण्डलितउरुदेह (१.१) whose massive body is rounded for butting against the slopes
शृङ्गाणिशृङ्ग (२.३) the peaks
अमुष्यअदस् (६.१) of this (mountain)
भजतेभजते (√भज् कर्तरि लट् (आत्मने.) प्र.पु. एक.) resorts to
गणभर्तुःगणभर्तृ (६.१) of the lord of the Ganas (Shiva)
उक्षाउक्षन् (१.१) the bull (Nandi)
कुर्वन्कुर्वत् (√कृ+शतृ, १.१) creating
वधूजनमनःसुवधूजनमनस् (७.३) in the minds of the women
शशाङ्कशङ्काम्शशाङ्कशङ्का (२.१) the doubt of being the moon
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
शु क्लै र्म यू नि यैः रि वी मू र्ति
र्व प्रा भि घा रि ण्ड लि तो रु दे हः
शृ ङ्गा ण्य मु ष्य ते र्तु रु क्षा
कु र्व न्व धू नः सु शा ङ्क ङ्काम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.