नानारत्नज्योतिषां संनिपातै-
श्छन्नेष्वन्तःसानु वप्रान्तरेषु ।
बद्धां बद्धां भित्तिशङ्काममुष्मि-
न्नावानावान्मातरिश्वा निहन्ति ॥

अन्वयः AI अमुष्मिन् अन्तःसानु नानारत्नज्योतिषां संनिपातैः छन्नेषु वप्रान्तरेषु मातरिश्वा आवान् आवान् बद्धां बद्धां भित्तिशङ्कां निहन्ति।
English Summary AI On this mountain, in the caves within its peaks which are obscured by the converging lights of various gems, the wind, by blowing repeatedly, dispels the recurring illusion that there is a solid wall, revealing the open space.
सारांश AI विभिन्न मणियों की कांति से ढकी हुई पर्वत की गुफाओं में जब बादल दीवार जैसा भ्रम पैदा करते हैं, तो बहती हुई वायु उन्हें बार-बार छिन्न-भिन्न कर देती है।
घण्टापथव्याख्या (मल्लिनाथः) नानेति ॥ अमुष्मिन्कैलासेऽन्तःसानु । सानुष्वित्यर्थः । विभत्त्यर्थेऽव्ययीभावः। नानारत्नज्योतिषां अनेकमणिकान्तीनां संनिपातैर्व्यतिकरैश्छन्नेषु छादितेषु । वा दान्तशान्त- (अष्टाध्यायी ७.२.२७ ) इत्यादिना निपातः । वप्रान्तरेषु कटकान्तरेषु बद्धांबद्धामभीक्ष्णबद्धाम् । दृढोत्पादितामित्यर्थः । नित्यवीप्सयोः (अष्टाध्यायी ८.१.४ ) इति नित्यार्थे द्विर्भावः । नित्यमभीक्ष्णम् इति काशिका । एकपदं चैतत् । भित्तिशङ्कां भित्तिरिति संदेहमावानावानभीक्ष्णमापतन् । आङ्पूर्वाद्वाधातोः शतृप्रत्ययः। द्विर्भावादि पूर्ववत् । मातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः । कनिन्प्रत्ययः । तत्पुरुषे कृति बहुलम् (अष्टाध्यायी ६.३.१४ ) इत्यलुक् । निहन्ति निवर्तयति । वायुसंचाराद्भित्त्यभावोऽवधार्यत इत्यर्थः । अतो निश्चयान्तः संदेहालंकारः । शालिनीवृत्तम् ॥
पदच्छेदः AI
नानारत्नज्योतिषाम्नानारत्नज्योतिस् (६.३) of the lights of various gems
संनिपातैःसंनिपात (सम्+नि√पत्, ३.३) by the convergence
छन्नेषुछन्न (√छद्+क्त, ७.३) when covered
अन्तःसानुअन्तर्सानु within the peaks
वप्रान्तरेषुवप्रअन्तर (७.३) in the spaces between the slopes
बद्धाम्बद्ध (√बन्ध्+क्त, २.१) repeatedly formed
बद्धाम्बद्ध (√बन्ध्+क्त, २.१) repeatedly formed
भित्तिशङ्काम्भित्तिशङ्का (२.१) the doubt of a wall
अमुष्मिन्अदस् (७.१) on this (mountain)
आवान्आवात् (आ√वा+शतृ, १.१) blowing again
आवान्आवात् (आ√वा+शतृ, १.१) and again
मातरिश्वामातरिश्वन् (१.१) the wind
निहन्तिनिहन्ति (नि√हन् कर्तरि लट् (परस्मै.) प्र.पु. एक.) dispels
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
ना ना त्न ज्यो ति षां सं नि पा तै
श्छ न्ने ष्व न्तः सा नु प्रा न्त रे षु
द्धां द्धां भि त्ति ङ्का मु ष्मि
न्ना वा ना वा न्मा रि श्वा नि न्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.