ईशार्थमम्भसि चिराय तपश्चरन्त्या
यादोविलङ्घनविलोलविलोचनायाः ।
आलम्बताग्रकरमत्र भवो भवान्याः
श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥

अन्वयः AI अत्र ईशार्थम् अम्भसि चिराय तपः चरन्त्याः यादोविलङ्घनविलोलविलोचनायाः भवान्याः अग्रकरम् भवः श्च्योतन्निदाघसलिलाङ्गुलिना करेण आलम्बत।
English Summary AI Here, Shiva (Bhava) took the hand of Parvati (Bhavani) with his own hand, from whose fingers perspiration dripped. She had been practicing severe penance in the water for a long time to win him, her eyes unsteady from the movements of aquatic creatures.
सारांश AI शिव को प्राप्त करने के लिए जल में दीर्घकाल तक तपस्या करती हुई पार्वती का हाथ, पसीने की बूंदों से युक्त उंगलियों वाले भगवान शिव ने सहारा देने के लिए पकड़ा था।
घण्टापथव्याख्या (मल्लिनाथः) ईशार्थमिति । ईशायेतीशार्थं यथा तथेति क्रियाविशेषणम् । अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या । चिराय चिरमम्भसि तपश्चरन्त्या अतएव यादोविलङ्घनविलोलविलोचनाया जलजन्तुविघट्टितचकितेक्षणायाः । तपसोऽप्यधिकं दृष्ट्यैव विलोभयन्त्येति भावः । यादांसि जलजन्तवः इत्यमरः (अमरकोशः १.१०.२० ) । भवान्या भवपत्न्या: । प्रयोगकालापेक्षोऽयं निर्देशः । इन्द्रवरुणभव- (अष्टाध्यायी ४.१.४९ ) इत्यादिना ङीप् । आनुगागमश्च । करैकदेशस्यापि करत्वादग्रश्चासौ करंश्चेति समानाधिकरणे समासः। अतएव वामनः-हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्मेदाभेदौ इति । तमग्रकरं भवः शिवः श्च्योतन्निदाघसलिलाङ्गुलिना स्त्रवत्स्वेदाङ्गुलिनेति सात्त्विकोदयोक्तिः । करेणात्र गिरावालम्बत गृही तवान् । अत्राद्भुतातीतवृत्तान्तस्य प्रत्यक्षवदभिधानाद्भाविकालंकार:—अतीतानागते यत्र प्रत्यक्षवदलक्षिते । अत्यद्भुतार्थकार्यत्वाद्भाविकं तदुदाहृतम् ॥ इति लक्षणात् । वसन्ततिलका वृत्तम्-उक्ता वसन्ततिलका तभजा जगौ गः इति तल्लक्षणात् ॥
पदच्छेदः AI
ईशार्थम्ईशअर्थम् for the sake of the Lord (Shiva)
अम्भसिअम्भस् (७.१) in the water
चिरायचिराय for a long time
तपश्चरन्त्याःतपस्–चरन्ती (√चर्+शतृ, ६.१) of her who was practicing austerity
यादोविलङ्घनविलोलविलोचनायाःयादस्विलङ्घनविलोलविलोचन (६.१) whose eyes were unsteady due to the movements of aquatic animals
आलम्बतआलम्बत (आ√लम्ब् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) he took hold of
अग्रकरम्अग्रकर (२.१) the hand
अत्रअत्र here
भवःभव (१.१) Bhava (Shiva)
भवान्याःभवानी (६.१) of Bhavani (Parvati)
श्च्योतन्निदाघसलिलाङ्गुलिनाश्च्योतत् (√श्च्युत्+शतृ)निदाघसलिलअङ्गुलि (३.१) with a hand whose fingers were dripping with perspiration
करेणकर (३.१) with the hand
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
शा र्थ म्भ सि चि रा श्च न्त्या
या दो वि ङ्घ वि लो वि लो ना याः
म्ब ता ग्र त्र वो वा न्याः
श्च्यो न्नि दा लि ला ङ्गु लि ना रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.