Loading data... On slow networks this could take a few minutes.
100%

कुररीगणः कृतरवस्तरवः
कुसुमानताः सकमलं कमलम् ।
इह सिन्धवश्च वरणावरणाः
करिणां मुदे सनलदानलदाः ॥

अन्वयः AI इह कुररीगणः कृतरवः, तरवः कुसुमानताः, कमलं सकमलम्, सिन्धवः च वरणावरणाः सनलदाः अनलदाः (सन्तः) करिणां मुदे (भवन्ति)।
English Summary AI Here, for the delight of elephants, flocks of ospreys are calling, trees are bent with flowers, the water is full of lotuses, and the rivers, frequented by excellent elephants, are cool and fragrant with Nalada grass.
सारांश AI यहाँ पक्षियों का कलरव, फूलों से लदे वृक्ष, कमलों से युक्त सरोवर और सुगन्धित घास वाली नदियाँ हाथियों को असीम आनंद प्रदान करती हैं।
घण्टापथव्याख्या (मल्लिनाथः) कुररीति ॥ इहाद्रौ कुररीगण उत्क्रोशसङ्घः । 'उत्क्रोशकुररौ समौ' इत्यमरः । कृतरवः कृतारवः। तरवः कुसुमैरानताः । कमलं जलं सकमलं सपद्मम्।'कमलं जलपद्मयोः इति विश्वः । यद्वा कं जलमलमत्यन्तं सपद्मं वर्तते । 'कं जले शिरसि च' इत्यमरः । किंच । वरणा द्रुमा आवरणं यासां ता वरणावरणाः । 'वरणो वरुणः सेतुस्तिक्तशाकः कुमारकः' इत्यमरः । सनलदाः सोशीराः । 'मूलेऽस्योशीरमस्त्रियाम् ।अभयं नलदं सेव्यम्' इत्यमरः । अनलं संतापं घन्ति खण्डयन्ति शमयन्तीत्यनलदाः । सनलदाश्च ता अनलदाः सिन्धवो नद्यः करिणां मुदे । भवन्तीति शेषः । न कुत्राप्युक्तवैपरीत्यमिति भावः॥
पदच्छेदः AI
कुररीगणःकुररीगण (१.१) the flock of ospreys
कृतरवःकृतरव (१.१) making sounds
तरवःतरु (१.३) the trees
कुसुमानताःकुसुमआनत (आ√नम्+क्त, १.३) bent with flowers
सकमलम्कमल (२.१) with lotuses
कमलम्कमल (२.१) the water
इहइह here
सिन्धवःसिन्धु (१.३) the rivers
and
वरणावरणाःवरनागआवरण (१.३) whose banks are frequented by excellent elephants
करिणाम्करिन् (६.३) of elephants
मुदेमुद् (४.१) for the joy
सनलदाःनलद (१.३) with fragrant Nalada grass
अनलदाःअनलदा (१.३) cool (not giving heat)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
कु री णः कृ स्त वः
कु सु मा ताः लं लम्
सि न्ध श्च णा णाः
रि णां मु दे दा दाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.