दिव्यस्त्रीणां सचरणलाक्षारागा
रागायाते निपतितपुष्पापीडाः ।
पीडाभाजः कुसुमचिताः साशंसं
शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥
दिव्यस्त्रीणां सचरणलाक्षारागा
रागायाते निपतितपुष्पापीडाः ।
पीडाभाजः कुसुमचिताः साशंसं
शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥
रागायाते निपतितपुष्पापीडाः ।
पीडाभाजः कुसुमचिताः साशंसं
शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥
अन्वयः
AI
अस्मिन् दिव्यस्त्रीणां सचरणलाक्षारागाः, रागायाते निपतितपुष्पापीडाः, पीडाभाजः, कुसुमचिताः शय्याः साशंसं सुरतविशेषं शंसन्ति।
English Summary
AI
On this mountain, the beds of divine women—reddened by the lac-dye from their feet, with flower garlands fallen during passionate lovemaking, showing signs of pressure, and strewn with flowers—suggestively reveal the details of their amorous activities.
सारांश
AI
यहाँ दिव्य स्त्रियों के चरणों के महावर से रंजित और बिखरे हुए फूलों वाली शय्याएँ, उन पर पड़े निशानों के माध्यम से यहाँ सम्पन्न हुए श्रेष्ठ रति-क्रीड़ा के सुखों का परिचय देती हैं।
घण्टापथव्याख्या (मल्लिनाथः)
दिव्येति ॥ अस्मिन्गिरौ ।चरणलाक्षारागैः सह वर्तन्ते तास्तथोक्ताः । धेनुकपुरुषायितादिबन्धेषु स्त्रियाः पादतलस्याधः स्पर्शात्तद्रागाङ्किता इत्यर्थः । निपतिता व्यानतकरणे स्त्रीणामधोमुखत्वाद्भ्रष्टाः पुष्पापीडाः कुसुमशेखरा यासु तास्तथोक्ताः ।
शिखा स्वापीडशेखरौ इत्यमरः (अमरकोशः २.६.१३७ ) । पीडाभाजो विमर्दभाजः । भङ्गिमत्य इत्यर्थः । भ्रमरप्रेङ्खोलितादौ सवतः कटीपरिभ्रमणसंभवादिति भावः । कुसुमौश्चिताः कुसुमव्याप्ताः । इभमार्जारादिकरणेषु स्तनभुजाद्ययवानां शय्यातलस्थायित्वान्मार्दवाय कुसुमाचिता इत्यर्थः । दिव्यस्त्रीणां संबन्धिन्यः। शेरत आस्विति शय्यास्तल्पानि । संज्ञायां समजनिषद— (अष्टाध्यायी ३.३.९९ ) इत्यादिना क्यप् । रागायाते रागोद्रेके सति यः साशंसः सतृष्णः सुरतविशेषस्तम्। जातावेकवचनम् । सुरतविशेषानित्यर्थः । शंसन्ति सूचयन्ति । विवृण्वन्तीत्यर्थः । अत्र लाक्षारागादिपदार्थानां सुरतविशेषशंसनं प्रति विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गमलंकारो यमकेन संसृज्यते । जलधरमालावृत्तम्—'म्भौ स्मौ चेत्स्याज्जलधरमाला ख्याता' इति लक्षणात् । धेनुकादिबन्धलक्षणं तु रतिरहस्ये-~~-'न्यस्तहस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा । अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदुन्नते प्रिय ॥ स्वेच्छया भ्रमति वल्लभेऽपि या योषिदाचरति वल्लभायितम् । व्यानतं रतमिदं यदि प्रिया स्यादधोमुखचतुष्पदाकृतिः ॥ तत्कटिं समधिरुह्य वल्लभः स्याध्दृषादिपशुसंस्थितिस्थितः।चक्रवद्भ्रमति कुञ्चिताङ्घ्रिका भ्रामरं न जघने समुद्गते ॥ सर्वतः कटिपरिभ्रमो यदि प्रेङ्खपूर्वमिदमुक्तमूलितम् । भूगतस्तनयुगास्यमस्तकामुन्नतस्फिजमधोमुखीं स्त्रियम् । कामति स्वकरकृष्टमेहने वल्लभे करिरतं तदुच्यते ॥ 'प्रसारिते पाणिपादे शय्यास्पृशि मुखोरसि । उन्नतायाः स्त्रियाः कट्यां मार्जारकरणं विदुः॥' इति ग्रन्थान्तरे । 'कान्तोत्पीडा म्भौ स्मौ' इति वृत्तम् ॥ गुणसंपदा समधिगम्य परं महिमानमत्र महिते जगताम् । नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः
पदच्छेदः
AI
| दिव्यस्त्रीणाम् | दिव्यस्त्री (६.३) | of divine women |
| सचरणलाक्षारागाः | स–चरण–लाक्षा–राग (१.३) | red with the lac-dye from their feet |
| रागायाते | राग–आयात (७.१) | in passionate lovemaking |
| निपतितपुष्पापीडाः | निपतित (नि√पत्+क्त)–पुष्प–आपीड (१.३) | from which flower-garlands have fallen |
| पीडाभाजः | पीडा–भाज् (√भज्, १.३) | showing signs of disarray |
| कुसुमचिताः | कुसुम–चित (√चि+क्त, १.३) | strewn with flowers |
| साशंसम् | स–आशंसम् | suggestively |
| शंसन्ति | शंसन्ति (√शंस् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) | indicate |
| अस्मिन् | इदम् (७.१) | on this (mountain) |
| सुरतविशेषम् | सुरत–विशेष (२.१) | the specifics of lovemaking |
| शय्याः | शय्या (१.३) | the beds |
छन्दः
जलधरमाला [१२: मभसम]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| दि | व्य | स्त्री | णां | स | च | र | ण | ला | क्षा | रा | गा |
| रा | गा | या | ते | नि | प | ति | त | पु | ष्पा | पी | डाः |
| पी | डा | भा | जः | कु | सु | म | चि | ताः | सा | शं | सं |
| शं | स | न्त्य | स्मि | न्सु | र | त | वि | शे | षं | श | य्याः |
| म | भ | स | म | ||||||||
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.