इह दुरधिगमैः किंचिदेवागमैः
सततमसुतरं वर्णयन्त्यन्तरम् ।
अमुमतिविपिनं वेद दिग्व्यापिनं
पुरुषमिव परं पद्मयोनिः परम् ॥

अन्वयः AI इह दुरधिगमैः आगमैः सततम् असुतरम् अन्तरम् किंचित् एव वर्णयन्ति। पद्मयोनिः परम् पुरुषम् इव, परम् (अन्यः कः) अतिविपिनं दिग्व्यापिनम् अमुम् वेद?
English Summary AI Here, scriptures, which are difficult to comprehend, describe its very hard-to-traverse interior only to a small extent. Just as only the lotus-born Brahma knows the supreme, all-pervading Purusha, who else knows this mountain, which is full of dense forests and spreads across all directions?
सारांश AI जिस प्रकार ब्रह्मा ही परम पुरुष के स्वरूप को जानते हैं, उसी प्रकार अत्यंत सघन वनों वाले और दिशाओं में व्याप्त इस पर्वत के विस्तार को केवल ब्रह्मा ही जान सकते हैं।
घण्टापथव्याख्या (मल्लिनाथः) इहेति ॥ इहास्मिन्पर्वते । सुतरं न भवतीत्यसुतरम् । दुस्तरमित्यर्थः । तरतेः खल्पत्ययः । अन्तरं मध्यभागम् । पुरुषे त्वन्तरं तत्त्वम् । दुरधिगमैर्दुरारोहैरन्यत्र दुर्ग्रहैरागमैर्वृक्षैरन्यत्र पुराणादिभिः। 'पुराणेऽप्यागमो वृक्ष (अष्टाध्यायी ८.३.९३ ) इति रुद्रट:। किंचिदेव सततं वर्णयन्ति । न तु कदाचित्प्रत्यक्षेणापि निःशेषं शातुमशक्यत्वादिति भावः । किंत्वतिविपिनमतिगहनं दिग्व्यापिनमुभयत्रापि समम् । अमुं गिरिं परं पुरुषं परमात्मानमिव परं केवलम् । 'परमव्ययमिच्छन्ति केवले' इति विश्वः। पद्मयोनिर्ब्रह्मैव वेद । नान्य इत्यर्थः । विदो लटो वा (अष्टाध्यायी ३.४.८३ ) इति णलादेशः। अत्रोपमायमकयोः संसृष्टिः। क्षमावृत्तम्—'तुरगरसयतिर्नौ भरौ गः क्षमा' ॥
पदच्छेदः AI
इहइह Here
दुरधिगमैःदुर्अधिगम (३.३) by the difficult to comprehend
किंचिदेवकिंचित्एव only a little
आगमैःआगम (३.३) by the scriptures
सततम्सततम् always
असुतरंअसुतर (२.१) very hard to traverse
वर्णयन्तिवर्णयन्ति (√वर्ण् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they describe
अन्तरम्अन्तर (२.१) the interior
अमुम्अदस् (२.१) this
अतिविपिनंअतिविपिन (२.१) full of dense forests
वेदवेद (√विद् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) knows
दिग्व्यापिनंदिक्व्यापिन् (२.१) all-pervading
पुरुषम्पुरुष (२.१) Purusha (Supreme Being)
इवइव like
परंपर (२.१) the supreme
पद्मयोनिःपद्मयोनि (१.१) the lotus-born (Brahma)
परम्परम् only
छन्दः क्षमा [१३: ननततग]
छन्दोविश्लेषणम्
१० ११ १२ १३
दु धि मैः किं चि दे वा मैः
सु रं र्ण न्त्य न्त रम्
मु ति वि पि नं वे दि ग्व्या पि नं
पु रु मि रं द्म यो निः रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.