ग्रहविमानगणानभितो दिवं
ज्वलयतौषधिजेन कृशानुना ।
मुहुरनुस्मरयन्तमनुक्षपं
त्रिपुरदाहमुपापतिसेविनः ॥

अन्वयः AI अनुक्षपम् ओषधिजेन कृशानुना अभितः दिवम् ग्रहविमानगणान् ज्वलयता, उमापतिसेविनः मुहुः त्रिपुरदाहम् अनुस्मरयन्तम् (हिमाचलम्)।
English Summary AI (He approached the Himalaya) which, with its fire born from medicinal herbs illuminating the sky and the constellations of planets all around every night, repeatedly reminded the attendants of Shiva of the burning of the three cities (Tripura).
सारांश AI वहाँ की ओषधियों से निकलने वाली अग्नि रात्रि में आकाश को इस प्रकार प्रकाशित करती थी मानो शिव के सेवकों को त्रिपुर-दाह की घटना की याद दिला रही हो।
घण्टापथव्याख्या (मल्लिनाथः) ग्रहेति ॥ दिवमभितो दिवोऽभिमुखम्। अभितःपरितः- इत्यादिना द्वितीया । ग्रहाश्चन्द्रादयो विमानानि देवयानानि च । व्योमयानं विमानोऽस्त्री इत्यमरः (अमरकोशः १.१.५८ ) । तेषां गणाञ्ज्वलयता प्रदीपयता । मितां ह्रस्वः (अष्टाध्यायी ६.४.९२ ) इति ह्रस्वः । ओषधिजेन तृणविशेषजन्येन कृशानुना वह्निना कृत्वानुक्षपंप्रतिक्षपम् । वीप्सायामव्ययीभावः । उमापतिसेविनः प्रमथादीन् । गतिबुद्धि- (अष्टाध्यायी १.४.५२ ) इत्यादिना द्विकर्मत्वम्। त्रयाणां पुराणां समाहारस्त्रिपुरम् । तद्धितार्थ- (अष्टाध्यायी २.१.५१ ) इत्यादिना समासः ।पात्रादिभ्यः प्रतिषेधो वक्तव्यःइति स्त्रीलिङ्गप्रतिषेधः। तस्य दाहं त्रिपुरदाहं मुहुरनुस्मरयन्तम् । नंनु अधीगर्थ– इत्यादिना दाहमित्यत्र षष्ठी किं न स्यात् । तस्याः शेषार्थे विधानाच्छेषत्वस्याविवक्षितत्वात्। अत्र कविसंमतसादृश्यात्स्मृतिः इति स्मरणालंकारः ॥
पदच्छेदः AI
ग्रहविमानगणान्ग्रहविमानगण (२.३) the constellations of planets
अभितःअभितः all around
दिवंदिव् (२.१) the sky
ज्वलयताज्वलयत् (√ज्वल्+णिच्+शतृ, ३.१) by that which illuminates
ओषधिजेनओषधि (३.१) by that born from medicinal herbs
कृशानुनाकृशानु (३.१) by the fire
मुहुःमुहुः repeatedly
अनुस्मरयन्तम्अनुस्मरयत् (अनु√स्मृ+णिच्+शतृ, २.१) reminding
अनुक्षपंअनुक्षपम् every night
त्रिपुरदाहम्त्रिपुरदाह (२.१) the burning of Tripura
उमापतिसेविनःउमापतिसेविन् (२.३) the attendants of Shiva
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
ग्र वि मा णा भि तो दि वं
ज्व तौ धि जे कृ शा नु ना
मु हु नु स्म न्त नु क्ष पं
त्रि पु दा मु पा ति से वि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.