कृतोर्मिरेखं शिथिलत्वमायता
शनैः शनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां
तरङ्गितक्षौमविपाण्डु सैकतम् ॥

अन्वयः AI सः शान्त-रयेण वारिणा शनैः शनैः कृत-ऊर्मि-रेखम्, शिथिलत्वम् आयता, समुद्र-योषिताम् तरङ्गित-क्षौम-विपाण्डु (इव) सैकतम् निरीक्ष्य रेमे ।
English Summary AI He delighted in observing the sandy bank, which, with lines of waves slowly made by the calmed water, was attaining a looseness. It appeared pale like the wavy linen garment of the ocean's wives (rivers).
सारांश AI नदियों के शांत होते जल से प्रकट हुए लहरों से अंकित और श्वेत वस्त्र के समान सुंदर बालू के तटों को देखकर अर्जुन आनंदित हुए।
घण्टापथव्याख्या (मल्लिनाथः) कृतेति ॥ सोऽर्जुनः शिथिलत्वमायता गच्छता। दिने दिने क्षीयमाणेनेत्यर्थः । अत एव शनैः शनैः शान्तरयेण । अन्यथोर्मिरेखानुदयादिति भावः । वारिणा। कृता ऊर्मयः पर्वाण्येव रेखा राजयो यस्य तत्तथोक्तम् । तरङ्गा अस्य संजातास्तरङ्गितं भङ्गिमत् । तदस्य संजातं- (अष्टाध्यायी ५.२.३६ ) इतीतच् । यत्क्षौमं दुकूलं तद्वद्विपाण्डु शुभ्रमित्युपमालंकारः। समुद्रयोषितां नदीनाम् । सिकतास्यास्तीति सैकतं पुलिनम् । सिकताशर्कराभ्यां च (अष्टाध्यायी ५.२.१०४ ) इत्यण्प्रत्ययः । तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् इत्यमरः (अमरकोशः १.१०.९ ) । निरीक्ष्य रेमे तुतोष ॥ ततस्त्रिभिः शालिगोप्त्रीं वर्णयति-~
पदच्छेदः AI
कृतोर्मिरेखम्कृत (√कृ+क्त)ऊर्मिरेखा (२.१) with lines of waves made
शिथिलत्वम्शिथिलत्व (२.१) looseness
आयताआयत् (आ√या+शतृ, २.१) attaining
शनैःशनैस् slowly
शनैःशनैस् slowly
शान्तरयेणशान्त (√शम्+क्त)रय (३.१) by the calmed speed
वारिणावारि (३.१) of the water
निरीक्ष्यनिरीक्ष्य (निर्√ईक्ष्+ल्यप्) having observed
रेमेरेमे (√रम् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) delighted
सःतद् (१.१) he
समुद्रयोषिताम्समुद्रयोषित् (६.३) of the ocean's wives (rivers)
तरङ्गितक्षौमविपाण्डुतरङ्गितक्षौमविपाण्डु (२.१) pale like a wavy linen garment
सैकतम्सैकत (२.१) the sandy bank
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
कृ तो र्मि रे खं शि थि त्व मा ता
नैः नैः शा न्त ये वा रि णा
नि री क्ष्य रे मे मु द्र यो षि तां
ङ्गि क्षौ वि पा ण्डु सै तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.