तुतोष पश्यन् कलमस्य सोऽधिकं
सवारिजे वारिणि रामणीयकम् ।
सुदुर्लभे नार्हति कोऽभिनन्दितुं
प्रकर्षलक्ष्मीमनुरूपसङ्गमे ॥

अन्वयः AI सः स-वारिजे वारिणि कलमस्य रामणीयकम् पश्यन् अधिकम् तुतोष । हि अनुरूप-सङ्गमे सुदुर्लभे (सति) कः प्रकर्ष-लक्ष्मीम् अभिनन्दितुम् न अर्हति?
English Summary AI He was greatly pleased seeing the beauty of the rice paddies in the water filled with lotuses. Indeed, who would not celebrate the height of beauty found in such a rare and fitting union?
सारांश AI कमलों से युक्त जल में धान के प्रतिबिंब की सुंदरता देखकर अर्जुन संतुष्ट हुए; क्योंकि अनुरूप वस्तुओं का मिलन सदैव प्रशंसनीय होता है।
घण्टापथव्याख्या (मल्लिनाथः) तुतोषेति ॥ सोऽर्जुनः सवारिजे साम्बुजे वारिणि कलमस्य शालिविशेषत्य । शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी इत्यमरः (अमरकोशः २.९.२५ ) रमणीयस्य भावो रामणीयकम् । योपधाद्गुरूपोत्तमाद्बुञ् । तत्पश्यन्नधिकं तुतोष । अनुरूपसंगमादिति भावः । तथाहि । सुदुर्लभेऽनुरूपसंगमे योग्यसमागमे लब्धे । सतीति शेषः । प्रकर्षलक्ष्मीं योग्यसमागमननिमित्तामुत्कर्षसंपदममिनन्दितुं स्तोतुं को नार्हति । सर्वोऽप्यभिनन्दत्येवेत्यर्थः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥
पदच्छेदः AI
तुतोषतुतोष (√तुष् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) was pleased
पश्यन्पश्यत् (√दृश्+शतृ, १.१) seeing
कलमस्यकलम (६.१) of the rice paddy
सःतद् (१.१) he
अधिकम्अधिकम् greatly
सवारिजेवारिज (७.१) with lotuses
वारिणिवारि (७.१) in the water
रामणीयकम्रामणीयक (२.१) the beauty
सुदुर्लभेसुदुर्लभ (७.१) very rare
not
अर्हतिअर्हति (√अर्ह् कर्तरि लट् (परस्मै.) प्र.पु. एक.) deserves
कःकिम् (१.१) who
अभिनन्दितुम्अभिनन्दितुम् (अभि√नन्द्+तुमुन्) to celebrate
प्रकर्षलक्ष्मीम्प्रकर्षलक्ष्मी (२.१) the height of beauty
अनुरूपसङ्गमेअनुरूपसङ्गम (७.१) in a fitting union
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तु तो श्य न्क स्य सो ऽधि कं
वा रि जे वा रि णि रा णी कम्
सु दु र्ल भे ना र्ह ति को ऽभि न्दि तुं
प्र र्ष क्ष्मी नु रू ङ्ग मे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.