कृतावधानं जितबर्हिणध्वनौ
सुरक्तगोपीजनगीतनिःस्वने ।
इदं जिघत्सामपहाय भूयसीं
न सस्यमभ्येति मृगीकदम्बकम् ॥

अन्वयः AI इदं मृगीकदम्बकं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने कृतावधानं (सत्), भूयसीं जिघत्साम् अपहाय, सस्यं न अभ्येति।
English Summary AI This herd of does, its attention captivated by the sound of the passionate songs of the cowherd women—a sound that surpasses the cries of peacocks—forgets its great hunger and does not approach the crops.
सारांश AI मोरों की ध्वनि को मात देने वाले गोपियों के मधुर गायन में मग्न मृगों का झुंड भोजन छोड़कर एकाग्रचित्त होकर संगीत सुन रहा है।
घण्टापथव्याख्या (मल्लिनाथः) कृतेति ॥ जितबर्हिणध्वनौ । केकानुकारिणीत्यर्थः। एतेन षड्जस्वरप्रायं गायन्तीति गम्यते । यथाह मातङ्ग:—षड्जं मयूरो वदति इति । गाः पान्तीति गोपास्तेषां भार्या गोप्यः । आतोऽनुपसर्गे कः (अष्टाध्यायी ३.२.३ ) इति कप्रत्ययः । पुंयोगादाख्यायाम् (अष्टाध्यायी ४.१.४८ ) इति ङीप् । ता एव जनः। सुरक्तो मधुरकण्ठो यो गोपीजनो वल्लवीजनस्तस्य गीतनिःस्वने गाने कृतावधानमेकाग्रचित्तमिदं पुरोवर्ति मृगीकदम्बकं कर्तृ भूयसीमतिमहद्वीं जिघत्सामत्तुमिच्छाम् । अदेः सन्नन्तादुप्रत्ययः । लुङ्सनोर्धस्लृ इति घस्लादेशः । अपहाय हित्वा सस्यं नाभ्येति नोपैति । गीतासक्त्त्या क्षुधामपि न गणयतीत्यर्थः ॥
पदच्छेदः AI
कृतावधानम्कृतअवधान (१.१) its attention captivated
जितबर्हिणध्वनौजितबर्हिणध्वनि (७.१) which surpasses the cries of peacocks
सुरक्तगोपीजनगीतनिःस्वनेसुरक्त–गोपीजनगीतनिःस्वन (७.१) by the sound of the passionate songs of the cowherd women
इदम्इदम् (१.१) This
जिघत्साम्जिघत्सा (२.१) hunger
अपहायअपहाय (अप√हा+ल्यप्) forgetting
भूयसीम्भूयस् (२.१) its great
not
सस्यम्सस्य (२.१) the crops
अभ्येतिअभ्येति (अभि√इ कर्तरि लट् (परस्मै.) प्र.पु. एक.) does approach
मृगीकदम्बकम्मृगीकदम्बक (१.१) herd of does
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
कृ ता धा नं जि र्हि ध्व नौ
सु क्त गो पी गी निः स्व ने
दं जि त्सा हा भू सीं
स्य भ्ये ति मृ गी म्ब कम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.