विपाण्डु संव्यानमिवानिलोद्धतं
निरुन्धतीः सप्तपलाशजं रजः ।
अनाविलोन्मीलितबाणचक्षुषः
सपुष्पहासा वनराजियोषितः ॥

अन्वयः AI (सः) अनिलोद्धतं विपाण्डु संव्यानम् इव सप्तपलाशजं रजः निरुन्धतीः, अनाविलोन्मीलितबाणचक्षुषः, सपुष्पहासाः वनराजियोषितः (ददर्श)।
English Summary AI He saw the forest-rows personified as women, who, with their clearly opened Bāṇa-flower eyes and their blossom-smiles, were checking the pale pollen of the Saptaparna trees, which resembled a pale upper garment lifted by the wind.
सारांश AI सप्तपर्ण के पराग रूपी श्वेत वस्त्र को ओढ़े, बाण के फूलों जैसे नेत्रों वाली वन-पंक्तियाँ खिले हुए फूलों की मुस्कान बिखेर रही हैं।
घण्टापथव्याख्या (मल्लिनाथः) विपाण्ड्विति ॥ विपाण्डु शुभ्रमनिलोद्धतमनिलोत्क्षिप्तम् । सप्त सप्त पलाशानि पत्राणि पर्वसु येषां ते वृक्षाः सप्तपलाशाः । क्वचित्संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्तम् । तेषां पुष्पाणि सप्तपलाशानि। द्विहीनं प्रसवे सर्वम् इत्यमरः (अमरकोशः २.४.१८ ) फले लुक् (अष्टाध्यायी ४.३.१६३ ) इत्यणो लुक् । तेषु जातं सप्तपलाशजं रजः परागं संव्यानमुत्तरीयमिव । संव्यानमुत्तरीयं च इत्यमरः (अमरकोशः २.६.११९ ) । निरुन्धतीर्निवारयन्तीः।प्रावृतवतीरिति यावत् । अनाविलान्यकलुषाण्युन्मीलितानि च बाणानि नीलसैरेयकाणि चक्षूम्षीव यासां तास्तथोक्ताः। नीलस्वर्थगलो दासी बाण ओदनपाक्यपि इति धन्वन्तरिः । पुष्पाणि हासा इव तैः सह वर्तन्त इति सपुष्पहासाः । वनराजयो योषित इव वनराजयोषितः । ता अपदिश्येत्यन्वयः। अत्र संव्यानमिवेत्युपमैवान्यत्रोपमितसमासे लिङ्गम् ।यथा काचित्केनचित्कामुकेनाक्षिप्तं स्तनांशुकं निरुन्धे तद्वदिति भावः ॥
पदच्छेदः AI
विपाण्डुविपाण्डु (२.१) pale
संव्यानम्संव्यान (२.१) an upper garment
इवइव like
अनिलोद्धतम्अनिलउद्धत (२.१) lifted by the wind
निरुन्धतीःनिरुन्धती (नि√रुध्+शतृ, २.३) checking
सप्तपलाशजम्सप्तपलाश (२.१) from the Saptaparna trees
रजःरजस् (२.१) the pollen
अनाविलोन्मीलितबाणचक्षुषःअनाविलउन्मीलितबाणचक्षुस् (२.३) with clearly opened Bāṇa-flower eyes
सपुष्पहासाःपुष्पहास (२.३) with smiles of blossoms
वनराजियोषितःवनराजियोषित् (२.३) the forest-rows personified as women
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि पा ण्डु सं व्या मि वा नि लो द्ध तं
नि रु न्ध तीः प्त ला जं जः
ना वि लो न्मी लि बा क्षु षः
पु ष्प हा सा रा जि यो षि तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.