मृणालिनीनामनुरञ्जितं त्विषा
विभिन्नमम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं
द्रुतं धनुष्खण्डमिवाहिविद्विषः ॥

अन्वयः AI मृणालिनीनां त्विषा अनुरञ्जितम्, अम्भोजपलाशशोभया विभिन्नम्, स्फुरच्छालिशिखापिशङ्गितं पयः, अहिविद्विषः द्रुतं धनुष्खण्डम् इव भाति।
English Summary AI The water, colored by the luster of the lotuses, variegated by the beauty of the lotus petals, and tinged yellow by the tips of the gleaming rice stalks, looks like a molten piece of the bow of Indra (the rainbow).
सारांश AI कमलों की कांति से रंजित और धान की बालियों की आभा से पीला पड़ा हुआ जल, इन्द्र के टूटे हुए धनुष के टुकड़े के समान प्रतीत हो रहा है।
घण्टापथव्याख्या (मल्लिनाथः) मृणालिनीनामिति ॥ मृणालिनीनां पद्मिनीनां त्विषा हरिवर्णेनानुरक्षितम् । तद्वर्णतामापादितमित्यर्थः । तथाम्भोजपलाशशोभया पद्मदलकान्त्या । आरुण्येनेत्यर्थः । विभिन्नं मिश्रितम् । तथा स्फुरच्छालिशिखापिशङ्गितं स्फुरद्भिः कलमात्रैः पिङ्गलीकृतमित्थं नानावर्णत्वाद्द्रुतं विलायितमहिविद्विषो वृत्रशत्रोरिन्द्रस्य । सर्पे वृत्रासुरेऽप्यहिः इति वैजयन्ती। धनुष्खण्डमिव स्थितम् । नित्यं समासेऽनुत्तरपदस्थस्य (अष्टाध्यायी ८.३.४५ ) इति विसर्जनीयस्य षत्वम् । पयो वप्राम्भोऽपदिश्य व्याजीकृत्य धावतामित्यागामिना संबन्धः। अत्र धनुष्खण्डस्य द्रुतस्य लोकेऽप्रसिद्धत्वादुत्प्रेक्षेयं नोपमा ॥
पदच्छेदः AI
मृणालिनीनाम्मृणालिनी (६.३) of the lotuses
अनुरञ्जितम्अनुरञ्जित (अनु√रञ्ज्+क्त, १.१) colored
त्विषात्विष् (३.१) by the luster
विभिन्नम्विभिन्न (वि√भिद्+क्त, १.१) variegated
अम्भोजपलाशशोभयाअम्भोजपलाशशोभा (३.१) by the beauty of the lotus petals
पयःपयस् (१.१) The water
स्फुरच्छालिशिखापिशङ्गितम्स्फुरत्शालिशिखापिशङ्गित (१.१) tinged yellow by the tips of the gleaming rice stalks
द्रुतम्द्रुत (√द्रु+क्त, १.१) molten
धनुष्खण्डम्धनुस्खण्ड (१.१) a piece of the bow
इवइव like
अहिविद्विषःअहिविद्विष् (६.१) of the enemy of the serpent (Indra)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
मृ णा लि नी ना नु ञ्जि तं त्वि षा
वि भि न्न म्भो ला शो या
यः स्फु च्छा लि शि खा पि ङ्गि तं
द्रु तं नु ष्ख ण्ड मि वा हि वि द्वि षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.