Loading data... On slow networks this could take a few minutes.
100%

अमी पृथुस्तम्बभृतः पिशङ्गतां
गता विपाकेन फलस्य शालयः ।
विकासि वप्राम्भसि गन्धसूचितं
नमन्ति निघ्रातुमिवासितोत्पलम् ॥

अन्वयः AI फलस्य विपाकेन पिशङ्गतां गताः, पृथुस्तम्बभृतः अमी शालयः, वप्राम्भसि विकासि, गन्धसूचितम् असितोत्पलं निघ्रातुम् इव नमन्ति।
English Summary AI These rice stalks, bearing thick stems and turned tawny by the ripening of their grain, bend down as if to smell the dark-blue lotus blooming in the water of the paddy fields, its presence indicated by its fragrance.
सारांश AI पकने के कारण पीले पड़े धान के पौधे, जल में खिले नीलकमलों की सुगंध को मानो सूँघने के लिए नीचे की ओर झुक रहे हैं।
घण्टापथव्याख्या (मल्लिनाथः) अमी इति ॥ अमी पृथून्स्त्रम्बान्गुच्छान्विभ्रतीति पृथुस्तम्बभृतः। स्तम्बो गुच्छस्तृणादिनः इत्यमरः (अमरकोशः २.९.२२ ) । फलस्य प्रसवस्य विपाकेन परिणामेन पिशङ्गतां गताः शालयो व्रीहिविशेषाः । वप्राम्भसि केदारोदके । पुनपुंसकयोर्वप्रः केदारः क्षेत्रम् इत्यमरः (अमरकोशः २.९.११ ) । विकसतीति विकासि विकसितं गन्धेन सूचितं ज्ञापितमसितोत्पलं निघ्रातुमाघ्रातुमिव नमन्ति । निध्यातुमिव इति पाठे द्रष्टुमित्यर्थः । निर्वर्णयितुं वा । निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् इत्यमरः (अमरकोशः ३.२.३१ ) । अत्र फलभारान्नमनस्य निघ्राणफलकत्वमुत्प्रेक्ष्यत इति फलोत्प्रेक्षा॥ अथ चतुर्भिः कलापकमाह
पदच्छेदः AI
अमीअदस् (१.३) These
पृथुस्तम्बभृतःपृथुस्तम्बभृत् (१.३) bearing thick stems
पिशङ्गताम्पिशङ्गता (२.१) tawny color
गताःगत (√गम्+क्त, १.३) having attained
विपाकेनविपाक (३.१) by the ripening
फलस्यफल (६.१) of their grain
शालयःशालि (१.३) rice stalks
विकासिविकासिन् (वि√कस्+णिनि, २.१) blooming
वप्राम्भसिवप्रअम्भस् (७.१) in the water of the paddy fields
गन्धसूचितम्गन्धसूचित (२.१) indicated by its fragrance
नमन्तिनमन्ति (√नम् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) bend down
निघ्रातुम्निघ्रातुम् (नि√घ्रा+तुमुन्) to smell
इवइव as if
असितोत्पलम्असितउत्पल (२.१) the dark-blue lotus
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
मी पृ थु स्त म्ब भृ तः पि ङ्ग तां
ता वि पा के स्य शा यः
वि का सि प्रा म्भ सि न्ध सू चि तं
न्ति नि घ्रा तु मि वा सि तो त्प लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.