Loading data... On slow networks this could take a few minutes.
100%

इयं शिवाया नियतेरिवायतिः
कृतार्थयन्ती जगतः फलैः क्रियाः ।
जयश्रियं पार्थ पृथूकरोतु ते
शरत्प्रसन्नाम्बुरनम्बुवारिदा ॥

अन्वयः AI पार्थ, शिवायाः नियतेः आयतिः इव, जगतः क्रियाः फलैः कृतार्थयन्ती, प्रसन्नाम्बुः, अनम्बुवारिदा इयं शरत् ते जयश्रियं पृथूकरोतु।
English Summary AI O Partha, may this autumn—which is like the advent of a favorable destiny, making the world's actions fruitful with results, having clear waters and waterless clouds—magnify your glory of victory.
सारांश AI जैसे अनुकूल प्रारब्ध संसार के कार्यों को सफल बनाता है, वैसे ही निर्मल जल और मेघों से रहित यह शरद ऋतु, हे अर्जुन, आपकी विजय-श्री को विस्तृत करे।
घण्टापथव्याख्या (मल्लिनाथः) इयमिति ॥ हे पार्थ, शिवायाः कल्याणकारिण्या नियतेः।दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधि: इत्यमर:। शुभावहदैवस्यायति: फलदानकाल: सैव जगत: क्रिया कृष्यादिकर्माणि फलैर्लाभैः । लाभनिष्पत्तियोगेषु बीजभावे धने फलम् इति वैजयन्ती । कृतार्थयन्ती सफलयन्ती प्रसन्नाम्बुर्निर्मलोदकानम्बुवारिदा निर्जलमेघा । अनेन विशेषणद्वयेन द्यावापृथिव्योरानुकूल्यं सूचयति । इयं शरते जयश्रियं पृथूकरोतु । आशीरर्थे लोट् ॥ उपैति सस्यं परिणामरभ्यता नदीरनौद्धत्यमपङ्कता महीम् । नवैर्गुणैः संप्रति संस्तवस्थिरं तिरोहितं प्रेम घनाममश्रियः
पदच्छेदः AI
इयम्इदम् (१.१) this
शिवायाःशिवा (६.१) of a favorable
नियतेःनियति (६.१) destiny
इवइव like
आयतिःआयति (१.१) the advent
कृतार्थयन्तीकृतार्थयन्ती (√कृतार्थय+शतृ, १.१) making fruitful
जगतःजगत् (६.१) of the world
फलैःफल (३.३) with results
क्रियाःक्रिया (२.३) the actions
जयश्रियम्जयश्री (२.१) glory of victory
पार्थपार्थ (८.१) O Partha
पृथूकरोतुपृथूकरोतु (पृथू√कृ कर्तरि लोट् (परस्मै.) प्र.पु. एक.) may magnify
तेयुष्मद् (६.१) your
शरत्शरद् (१.१) autumn
प्रसन्नाम्बुःप्रसन्नअम्बु (१.१) having clear waters
अनम्बुवारिदाअनम्बुवारिद (१.१) having waterless clouds
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
यं शि वा या नि ते रि वा तिः
कृ ता र्थ न्ती तः लैः क्रि याः
श्रि यं पा र्थ पृ थू रो तु ते
त्प्र न्ना म्बु म्बु वा रि दा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.