जनैरुपग्राममनिन्द्यकर्मभि-
र्विविक्तभावेङ्गितभूषणैर्वृताः ।
भृशं ददर्शाश्रममण्डपोपमाः
सपुष्पहासाः स निवेशवीरुधः ॥

अन्वयः AI सः उपग्रामम् अनिन्द्यकर्मभिः विविक्तभावेङ्गितभूषणैः जनैः वृताः, आश्रममण्डपोपमाः, सपुष्पहासाः निवेशवीरुधः भृशं ददर्श।
English Summary AI He (Arjuna) keenly observed the settlement's creepers near the village. They were surrounded by people of blameless deeds, whose ornaments were their pure thoughts and gestures. The creepers, resembling hermitage pavilions, seemed to smile with their blossoms.
सारांश AI गाँव के पास लताओं और फूलों से घिरे हुए श्रेष्ठ पुरुषों के सुंदर घर अर्जुन को शांतिपूर्ण आश्रम के मंडप के समान प्रतीत हुए।
घण्टापथव्याख्या (मल्लिनाथः) जनैरिति ॥ सोऽर्जुन उपग्रामं ग्रामेषु । विभत्त्यर्थेऽव्ययीभावः । अनिन्द्यकर्मभिरनिषिद्धवृत्तिभिः । वृत्तिश्चैकत्र कृप्यादिरन्यत्र शिलोञ्छादिः । विविक्तान्येकाग्राणि भावोऽभिप्राय इङ्गितं चेष्टा भूषणमलंकारश्च येषां तैस्तथोक्तैर्जनैर्वृताः । अधिष्ठिता इत्यर्थः । अतएवाश्रमेषु मुनिस्थानेषु ये मण्डपास्तदुपमाः । मण्डपोऽस्त्री जनाश्रयः इत्यमरः (अमरकोशः २.२.९ ) । सपुष्पहासाः पुष्पविकाससहिताः । तेन सह-' इत्यादिना बहुव्रीहिः । निवेशवीरुधो गृहगुल्मिनीः । 'बीरुधो वल्लिगुल्मिन्यौ' इति वैजयन्ती । भृशं सादरं ददर्श । उपमालंकारः ॥ ततः स संप्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् । उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति
पदच्छेदः AI
जनैःजन (३.३) by people
उपग्रामम्उपग्रामम् near the village
अनिन्द्यकर्मभिःअनिन्द्यकर्मन् (३.३) of blameless deeds
विविक्तभावेङ्गितभूषणैःविविक्तभावइङ्गितभूषण (३.३) whose ornaments were pure thoughts and gestures
वृताःवृत (√वृ+क्त, २.३) surrounded
भृशम्भृशम् keenly
ददर्शददर्श (√दृश् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) observed
आश्रममण्डपोपमाःआश्रममण्डपउपमा (२.३) resembling hermitage pavilions
सपुष्पहासाःपुष्पहास (२.३) with smiles of blossoms
सःतद् (१.१) He
निवेशवीरुधःनिवेशवीरुध् (२.३) the settlement's creepers
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नै रु ग्रा नि न्द्य र्म भि
र्वि वि क्त भा वे ङ्गि भू णै र्वृ ताः
भृ शं र्शा श्र ण्ड पो माः
पु ष्प हा साः नि वे वी रु धः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.