Loading data... On slow networks this could take a few minutes.
100%

व्रजाजिरेष्वम्बुदनादशङ्किनीः
शिखण्डिनामुन्मदयत्सु योषितः ।
मुहुः प्रणुन्नेषु मथां विवर्तनै-
र्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥

अन्वयः AI व्रजाजिरेषु मथां विवर्तनैः मुहुः प्रणुन्नेषु मृदङ्गमन्थरं नदत्सु कुम्भेषु, अम्बुदनादशङ्किनीः शिखण्डिनां योषितः उन्मदयत्सु (सत्सु, सः बल्लवीः ददर्श)।
English Summary AI (Continuing the description) ...while in the courtyards of the cow-pens, the pots, repeatedly struck by the turning of the churning sticks, rumbled deep like a mṛdaṅga drum, exciting the peahens who mistook the sound for the thunder of clouds.
सारांश AI घड़ों के मथने की गंभीर ध्वनि से बादलों का भ्रम होने पर मयूर नाचने लगे, जिससे ब्रज के आंगनों में उत्सव का माहौल बन गया।
घण्टापथव्याख्या (मल्लिनाथः) व्रजेति ॥ व्रजाजिरेषु गोष्ठप्राङ्गणेषु । अधिकरणे सप्तमी । व्रजो गोष्ठाध्ववृन्देषु इति विश्वः । अम्बुदनादशङ्किनीर्गर्जितभ्रमवतीरिति भ्रान्तिमदलंकारः। शिखण्डिनां योषितो मयूरीः । योषिद्ग्रहणं मौग्ध्यातिशयार्थम् । उन्मदयत्सून्मदाः कुर्वत्सु । तत्करोति इति ण्यन्ताच्छतृप्रत्ययः । मथां मन्थनदण्डानाम् । वैशाखमन्थमन्थानमन्थानो मन्थदण्डके इत्यमरः (अमरकोशः २.९.७५ ) । विवर्तनैः परिभ्रमणैर्मुहुः प्रणुन्नेषु कम्पितेष्विति स्वभावोक्तिः । कुम्भेषु कलशेषु मृदङ्गवन्मन्थरं मन्दं नदत्सु स्वनत्सु सत्स्विति वाद्यसा म्योक्तिः । भावलक्षणे सप्तमीयम् ॥
पदच्छेदः AI
व्रजाजिरेषुव्रजअजिर (७.३) in the courtyards of the cow-pens
अम्बुदनादशङ्किनीःअम्बुदनादशङ्किन् (२.३) mistaking for the sound of clouds
शिखण्डिनाम्शिखण्डिन् (६.३) of peacocks
उन्मदयत्सुउन्मदयत् (उद्√मद्+णिच्+शतृ, ७.३) while exciting
योषितःयोषित् (२.३) the females (peahens)
मुहुःमुहुस् repeatedly
प्रणुन्नेषुप्रणुन्न (प्र√नुद्+क्त, ७.३) on being struck
मथाम्मथ् (६.३) of the churning sticks
विवर्तनैःविवर्तन (३.३) by the turnings
नदत्सुनदत् (√नद्+शतृ, ७.३) while rumbling
कुम्भेषुकुम्भ (७.३) the pots
मृदङ्गमन्थरम्मृदङ्गमन्थरम् deep like a mṛdaṅga drum
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
व्र जा जि रे ष्व म्बु ना ङ्कि नीः
शि ण्डि ना मु न्म त्सु यो षि तः
मु हुः प्र णु न्ने षु थां वि र्त नै
र्न त्सु कु म्भे षु मृ ङ्ग न्थ रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.