गतान्पशूनां सहजन्मबन्धुतां
गृहाश्रयं प्रेम वनेषु बिभ्रतः ।
ददर्श गोपानुपधेनु पाण्डवः
कृतानुकारानिव गोभिरार्जवे ॥

अन्वयः AI पाण्डवः पशूनां सहजन्मबन्धुतां गतान्, वनेषु गृहाश्रयं प्रेम बिभ्रतः, आर्जवे गोभिः कृतानुकारान् इव गोपान् उपधेनु ददर्श।
English Summary AI The Pandava (Arjuna) saw the cowherds near the cows. They had attained a natural kinship with the animals, bore a domestic affection for them in the forests, and seemed to imitate the cows in their simplicity.
सारांश AI गायों के प्रति सहज प्रेम रखने वाले और स्वभाव से उन्हीं के समान सरल ग्वालों को अर्जुन ने उनके निवास स्थान के पास देखा।
घण्टापथव्याख्या (मल्लिनाथः) गतानिति ॥ पाण्डवोऽर्जुनः पशूनां गवाम्। सह जन्म येषां ते सहजन्मानः सोदरास्त एव बन्धवस्तेषां भावस्तत्ता तां गतान् । पशुषु सोदराभिमानवत इत्यर्थः । गृहाश्रयं गृहविषयं प्रेम वनेषु बिभ्रतः । वनेषु गृहाभिमानिन इत्यर्थः । आर्जवे विधेयत्वे । गोभिः पशुभिः कृतानुकाराननुकृतानिव स्थितानित्युत्प्रेक्षा। ततो विधेयानित्यर्थः । गाः पान्तीति गोप गोपालकाः । अतोऽनुपसर्गे कः इति कप्रत्ययः । तानुपधेनु धेनुसमीपे । समीपार्थेऽव्ययीभावः । ददर्श । अत्रोत्प्रेक्षानुप्राणिती स्वभावोक्तिरलंकारः ॥ अथ चतुर्भिर्वल्लवीर्नर्तकीसाम्येन वर्णयति
पदच्छेदः AI
गतान्गत (√गम्+क्त, २.३) who had attained
पशूनाम्पशु (६.३) with the animals
सहजन्मबन्धुताम्सहजन्मबन्धुता (२.१) a natural kinship
गृहाश्रयम्गृहआश्रय (२.१) domestic
प्रेमप्रेमन् (२.१) affection
वनेषुवन (७.३) in the forests
बिभ्रतःबिभ्रत् (√भृ+शतृ, २.३) bearing
ददर्शददर्श (√दृश् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) saw
गोपान्गोप (२.३) the cowherds
उपधेनुउपधेनु near the cows
पाण्डवःपाण्डव (१.१) the Pandava (Arjuna)
कृतानुकारान्कृतअनुकार (२.३) who imitated
इवइव as if
गोभिःगो (३.३) the cows
आर्जवेआर्जव (७.१) in simplicity
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ता न्प शू नां न्म न्धु तां
गृ हा श्र यं प्रे ने षु बि भ्र तः
र्श गो पा नु धे नु पा ण्ड वः
कृ ता नु का रा नि गो भि रा र्ज वे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.