Loading data... On slow networks this could take a few minutes.
100%

विमुच्यमानैरपि तस्य मन्थरं
गवां हिमानीविशदैः कदम्बकैः ।
शरन्नदीनां पुलिनैः कुतूहलं
गलद्दुकूलैर्जघनैरिवादधे ॥

अन्वयः AI तस्य विमुच्यमानैः अपि मन्थरम्, हिमानीविशदैः गवां कदम्बकैः, गलद्दुकूलैः जघनैः इव शरन्नदीनां पुलिनैः कुतूहलम् आदधे।
English Summary AI The herds of cattle, white as snow and moving slowly even when released by him (the cowherd), created curiosity with the sandbanks of the autumn rivers, just as hips with slipping silk garments do.
सारांश AI बर्फ जैसी श्वेत गायों के धीरे-धीरे चलते झुंडों ने शरद कालीन नदियों के किनारों को खिसकते रेशमी वस्त्रों वाले जघनों के समान आकर्षक बना दिया।
घण्टापथव्याख्या (मल्लिनाथः) विमुच्यमानैरिति ॥ हिमानीविशदैर्हिमसंघातशुभ्रै:।हिमानी हिमसंहतिः इत्यमरः (अमरकोशः १.३.२० ) । ‘इन्द्रवरुणइत्यादिना ङीप् तत्संनियोगादानुगागमश्च । गवां कदम्बकैः कर्तभिः । कदम्बकं समूहे श्रीफले पुष्पविशेषके इत्यमरः । मन्थरं मन्दं विमुच्यमानैरपि । किमुताविमुच्यमानैरिति भावः । धरन्नदीनां संबन्धिभिः । शरद्ग्रहणं प्रावृण्निवृत्त्यर्थं तत्र पुलिनादर्शनादिति भावः । पुलिनैः कर्तृभिः गलद्दुकूलैर्जघनैरिव तस्यार्जुनस्य कुतूहलं कौतुकमादध अहितम् ॥
पदच्छेदः AI
विमुच्यमानैःविमुच्यमान (वि√मुच्+यक्+शानच्, ३.३) being released
अपिअपि even
तस्यतद् (६.१) by him
मन्थरम्मन्थरम् slowly
गवाम्गो (६.३) of cows
हिमानीविशदैःहिमानीविशद (३.३) white as snow
कदम्बकैःकदम्बक (३.३) by the herds
शरन्नदीनाम्शरद्नदी (६.३) of autumn rivers
पुलिनैःपुलिन (३.३) by the sandbanks
कुतूहलम्कुतूहल (२.१) curiosity
गलद्दुकूलैःगलत्दुकूल (३.३) with slipping silk garments
जघनैःजघन (३.३) by hips
इवइव like
आदधेआदधे (आ√धा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) was created
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि मु च्य मा नै पि स्य न्थ रं
वां हि मा नी वि दैः म्ब कैः
न्न दी नां पु लि नैः कु तू लं
द्दु कू लै र्ज नै रि वा धे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.